SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ।१६३॥ एकत्रासत्यजं पापं, पापं निश्शेषमन्यतः । द्वयोस्तुलाविधृतयोस्तत्राद्यमतिरिच्यते ॥ १।। अश्वमेधसहस्रं तु, सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशेष्यते ॥ २ ॥ सर्ववेदाधिगमनं, सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन् !, समं वा स्यान्न वा समम् ।। ३ ।। सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।। ४ ।। "सत्यार्जवे धर्ममाहुः" इत्यादि जानानः पारुष्यपैशन्यासभ्यरागद्वेषयुक्तात्मस्तुतिपरनिन्दादिपरिहारेण 'महरं निउणं थोवं' इत्याद्यागमानुसारि वचो मया वाच्यमिति प्रतिज्ञाय "सत्यवाचा युधिष्ठिरः" इति बिरुदं बभार । तथा - सत्यं मित्रः प्रियं स्त्रीभिव्यंलीकं मधुरं द्विषा । अनुकूलं च शस्य च, वक्तव्य गुरुणा सह ॥ १ ॥ ____इति नीतिपथोऽपि येन धर्मार्थिना न सत्यापितः कदाचित्केनाप्याकारेण मृषाभाषणे विशेषतपः कर्तव्यम् ।। सर्वासत्यपरित्यागान्मृष्टेष्टवचनामृतः । जीयात् कुमारभूपालः, सत्यवाचा युधिष्ठिरः ।। १ ।। अदत्तादानपरिहाररूपे तृतीयव्रते____दुभिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धकी, ध्यायत्यर्थपतेभिषग्गदगणोत्पातं कलिं नारदः । दोषग्राहि जनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाढयमवनीपालो हहा ! वाञ्छति ।।१।। इति श्रीचौलुक्यनप ! राजस्तृतीयव्रतपालनं कथम् ? इत्युक्ते सूरिभिः राजा प्राह-- .. निष्पुत्रो म्रियते यो यस्तस्य तस्य हताशयाः । पुत्रतां प्रतिपद्यन्ते, नृपाः कष्टं धनाशया ॥ १ ॥ तदद्यप्रभृति मुक्तमेव मया मृत्तसर्वस्वम् , भवतु मे तृतीयव्रताङ्गीकारः संसारतारणायेति प्रतिपद्य राजपर्षदि सर्वसा- मन्तादिसमक्ष पञ्चकुलमाकार्य पृष्ट्वा च प्रतिवर्ष द्वासप्ततिलक्षद्रव्यायपदं ज्ञात्वा संतोषपोषितात्मा रुदतीवित्तं मुक्तवान् , ॥१६३।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy