SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मारपाल । १६२॥ इति स्वदेशेष्वमारिपटहो दापितः, अगलितजलव्यापारनिषेधश्च । अश्वलक्षपश्चहस्तिसहस्र कगोधनाशीतिसहस्रोष्ट्रपश्चाशत्सहस्राणां गलितजलपानं कुमरगिर्यादौ । काशिगाजण्यादिचतुर्दशदेशेषु धनविनयमैत्र्यादिबलेन जीवरक्षा कारिता । मारीत्यक्षरोच्चारणे क्षपणम् । नवरात्रपशुबल्यदानकुपितकण्टेश्वरीत्रिशूलघातसंजातसर्वाङ्गकुष्ठादिवेदनायां मन्त्रयुदयनविज्ञप्तदेवीबलिप्रदानविषयेऽनुमतिरपि नादायि दयालुना येन । एकादशलक्षाश्वादिपर्याणेषु प्रमार्जनार्थं प्रौञ्छनिकाः कारिताः । एकदा पर्याणप्रमार्जने नडूलसामन्तेन जहासे अपरैः सामन्तैः परस्परं दृक्संज्ञया । ज्ञाते च राज्ञा सप्त लोहकटाहीर्बाणेन भित्त्वा साङ्गिकया षोडशमणगोणिमुत्पाट्य बलं दर्शयित्वा तर्जिताः सामन्ता भवत्स्वेवंविधोऽस्मीति । एकदा कायोत्सर्गस्थे नृपे मर्कोटकः पादे लग्नः पार्श्वस्थैः पारिचारिकैरुत्सार्यमाणोऽपि राज्ञा तस्याऽसमाधिसंभावनया स्वत्वचा सह दूरीकृतः । महेश्वरग्रामीयवणिजा यूकावधे यूकावसतिः कारिता । इत्यादि किमुच्यते । यतः - कृपैकजीवितो धर्मः, सर्वशास्त्रः प्रतिष्ठितः । इति ज्ञात्वा स धर्मात्मा, तन्मयं कृतवान् जगत् ।। १ ।। अपि चश्रीकुमारधरणीभृतः कथं कथ्यतेऽत्र महिमा प्रमातिगः । यः कृपाव्रतमिहाश्रितः स्वयं तन्मयं च निखिलं जगद्वयधात् ||१|| एवं दयां परिपालयतः श्रीकुमारपाल भूपतेरुप श्लोकनाकाव्यं श्रीगुरुभिरुक्तं यथा- स्वर्गे न क्षितिमण्डले न वडवावक्त्रेन लेभे स्थिति त्रैलोक्यैकहितप्रदाऽपि विधुरा दीना दया या चिरम् । चौलुक्येन कुमारपालविभुना प्रत्यक्षमावासिता, निर्भीका निजमानसौकसि वरे केनोपमीयेत सः ।। १ ।। शरणागतत्रातेति बिरुदं दत्तम् ।। मृषावादविरमणव्रते - प्रबन्धः । ।। १६२ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy