SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ।१५९॥ ॥ ३१॥ इदं व्रतं भोग्यपरिमाणेन भोगायोग्यवर्जनेन तु पालनीयमिति वर्जनीयान्याह-द्वाविंशतिरभक्ष्याणि, सूत्रोक्तानन्तकायिकाः । वान्येतानि विज्ञाय, सम्यग् दूरे दयालुना ।। ३२ ।। आतं रौद्रं च दुनिं, हिंसोपकरणार्पणम् । पापाचारोपदेशश्च, प्रमादपरिषेवणम् ।। ३३ ।। सर्वोऽप्यनर्थदण्डोऽयं, वृथा कल्मषकारणात् । अपाकरणमस्य स्यात्, तार्तीयकं गुणव्रतम् ॥ ३४ ॥ त्यक्तसावद्यकर्तव्यदुनिस्य शरीरिणः । समता या मुहूर्त स्यात्, सा सामायिकमुच्यते । ३५ ।। यदागमः-- सावञ्जजोगविरओ, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो, आया सामाइयं होइ ।। १ ।। आओवमाए परदुक्ख अकरणं रागदोसमज्झत्थं । नाणाइतियं तस्सायपोसणं भावसामइयं ॥ २ ॥ दिग्वतप्रमितेरह्नि, निशि यच्चाल्पनं पुनः । देशावकाशिकं तत्स्यावतं सुकृतकारणम् ।। ३६ ॥ उपलक्षणात्प्रहरादौ यत्र तत्रारम्भपरिहाररूपं देशेऽवकाशं गृह्णाति । पूर्व दिग्व्रते बहूनि योजनानि मुत्कलानि कृतानि तानि देशावकाशिके त्वपसारयति । हविषाहेर्दादशयोजनानि दृग्विषयो विद्यावता न्यूनीकृतो योजनमात्रं स्थितः । यथा वा शरीरस्थं विषमगदबलेनामुल्यां स्थाप्यते । एव विवेकिना यावत्कथिकदिग्वतादिने दिनेऽपसारयितव्यम् । एवं सर्वव्रतेष्वपि ये नियमाः स्थापितास्ते पुनः पुनर्दिवारात्रौ अपसारयितव्याः । यथा-- पुढवि दग अगणि मारुय वणस्सइ तह तसेसुपाणेसु । आरम्भमेगसो सव्वसो य सत्तीए वजेजा ॥१॥ न भणिज रागदोसेहिं दूसियं नवि गिहत्थसंबद्ध। भासेज धम्मसहियं, माणं च करिज सत्तीए ।।२।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy