________________
प्रबन्धः ।
।१५८॥
पुनः प्रौढक्षुधैव सकलं कुलम् ।। १९ ।। त्यक्तचौर्यो रोहिणेयो, यदाप सुरसंपदम् । प्राणान्तेऽपि परं स्वं तन्न हर्तव्यं कुमारपाला विवेकिना ॥ २० ॥ यदुक्तम्
"द्वे अकार्ये कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥ १ ॥" जगत्यकीत्तिः स्वकुलक्षयं दुर्गतिगामिताम् । अब्रह्मणः फलं पश्यन, न पश्येत् परयोषितम् ।। २१ ।। स्वकीया परकीया च, पण्यत्री च कुमारीका । एवं भवेत्समग्राऽपि, स्त्रीणां जातिचतुष्टयी।।२२।।तन्मध्ये स्ववधूरेव, सेवनीया विवेकिना। शेषास्तु स्वसवित्रीवञ्चिन्तनीयाः सचेतसा ।। २३ । परस्त्रीसङ्गमाकाङ्क्षामात्रेणापि स रावणः । आसीदासीभवद्विश्वश्चतुर्थे नरकेऽ तिथिः ।। २४ ।। तस्माद्गाङ्गेयवन्नित्यं, ब्रह्मचारी भवेद्बुधः । तदशक्तौ स्वदारेषु, सुसन्तुष्टश्च सर्वदा ॥ २५ ॥ परिग्रहाधिकः प्राणी, प्रायेणारम्भकारकः । स च दुःखखनिनं, ततः कल्प्या तदल्पता ।। २६ ॥ असंतोषवतां सौख्यं, त्रैलोक्येऽपि न देहिनाम् । तृष्णोपतप्तमनसामपमानं पदे पदे ।। २७ ॥ श्रुत्वा परिग्रहक्लेशं, मम्मणस्य गति तथा । धर्मान्वेषी सुखार्थी वा, कुर्यात्स्वल्पपरिग्रहम् ।। २८ ।। दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यां ख्यातं, तद्गुणवतमादिमम् ॥ २९ ।। यतः. तत्तायगोलकप्पो, पमत्तजीवोऽणिवारियप्पसरो । सव्वत्थ किं न कूजा, पावं तकारणाणुगओ ॥ १ ।।
लोभाभिभूतो हि त्रिभुवनमपि मनोरथैराक्रमति ।। संख्या विधीयते यत्र, शक्त्या भोगोपभोगयोः । भोगोपभोगमानं तत्स्याद्वितीयं गुणवतम् ।। ३० ।। सकृत्सेवोचितो भोगो, ज्ञेयोऽन्नकुसुमादिकः । मुहुः सेवोचितस्पूपभोगः स्वर्णाङ्गनादिकः