SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ । १५७।। ********* निकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो, बद्धायुर्वापि नो पुरा ।। ७ ।। उक्तं चअन्तर्मुहूर्तमपि यः समुपास्य जीवः, सम्यक्त्वरत्नममलं विजहाति सद्यः । बम्भ्रम्यते भवपथे सुचिरं न सोऽपि तद्विभ्रतश्चिरतरं किमुदीरयामः ।। १ ।। अणुव्रतानि पञ्चादौ, दिग्विरत्यादिकं त्रयम् । शिक्षाव्रतानि चत्वारि, स्यादेवं द्वादशव्रती ॥ ८ ॥ द्विधात्रिधादिना स्थूलहिंसादेविरतिः सदा । अहिंसाद्या भवेत् पञ्चवाणुव्रती गृहमेधिनाम् ।। ९ ।। त्रसानां मन्तुमुक्तानां हिंसां संकल्पकल्पिताम् । स्थावराणामपि व्यथ, वर्जयेत्करुणापरः ।। १० ।। देवातिथ्यादिपूजार्थं, वेदस्मृत्यादिवाक्यतः । क्रियते या वधः सोऽपि नरकप्राप्तिलग्नकः ।। १ ।। यदुक्तम् मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण दाणेणं ।। १ ।। मातुर्वचनतः पिष्ठकृतकुर्कुटहिंसनात् । राजा यशोधरः प्राप, दुरन्तां दुःखसंततिम् ।। १२ ।। तस्मात् श्रेयोऽथना हिंसा, त्याज्या वनदवाग्निवत् । दयितेव दया कार्या, हृदानन्दप्रदायिनी ।। १३ ।। लघीयस्त्वमिहामुत्र, मूकत्वादि च तत्फलम् । विलोक्य पापहेतुत्वात्स्थूलाऽसत्यं त्यजेत्सुधीः ।। १४ ।। एकशः कूटसाक्ष्येाक्तः, सप्तमे नरकेऽतिथिः । बभूव वसूभूपालस्तदलीकैरलं सताम् ।। १५ ।। भवे भवे भवेत्पुंसां, दासत्वं परमन्दिरे । परद्रव्यापहाराय मतिर्येषां विजृम्भते ।। १६ ।। यातनां विविधामत्र, परत्र नरके गतिम् । दौर्भाग्यं च दरिद्रत्वं लभेचौर्यपरो नरः ।। १७ ।। दानशीलतपोभावैरजितं सुकृतं महत् । निखिलं निष्फलं ज्ञेयं, परद्रव्यापहारिणाम् ।। १८ ।। वधादप्यधिकं स्तेयं तेनैको यद्विपद्यते । धने हृ ************* ।। १५७।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy