________________
कुमारपाल
।। १५६ ।।
अहं भणियं खे सासणदेवीए एवमेव मा झूर । आवत्तमाणजस तुममेमे अ किमत्तमाणमणो ॥ ३ ॥ गुणिपावारयपार, दुहअडचितावडेसु मा पडसु । होही तुह उज्जाणं, सइ सव्वरिऊहिं कयकुसुमं ||४|| इत्यादि ।
तथा-
वंदणयं साहूणं, जो सम्मं देइ गुणसयरयाणं । सो पावइ सयलसुहं, हरिव्व कम्मक्खयं कुणइ ।। १ ॥ पुरा द्वारवतीपुर्यां श्रीकृष्णेनार्द्ध चक्रिणा । श्रीमान्ले मिजिनोऽवन्दि सहानेकमुनीश्वरैः ।। १ ।। सम्यगुभावाजिनमनीन्, वन्दमानेन विष्णुना । अर्जितं तीर्थकृद्गोत्रं सम्यक्त्वं क्षायिकं तथा ।। २ ।। सप्तम्यादि चतुर्थ्यन्तनरकायुवियोजितम् । राजन्नैवंफलं साधुवन्दनं त्वं ददस्व भोः ! ।। ३ ।। तदनु श्रीप्रभोः पादपद्मयोर्वन्दनं विना । न भोक्तव्यं मयेत्येवं जग्राहाभिग्रहं सुधीः || ४ || एवं दानशीलतपोभावनासु दृष्टान्ता अत्र श्रेयांसादयो ज्ञेयाः । तथा कामदेवादिसुश्रावकवत् शुद्धधर्मे मनो निधेहि । तत्र —
साधुश्राद्धाश्रितत्वेन धर्मो विस्फूर्जति द्विधा । यं समासेव्य भविकास्तरन्त्येव भवार्णवम् ।। १ ।। तत्राद्यो दशधा क्षान्त्यार्जवाद्यावर्जितः परः । द्वादशव्रतरूपः स्याद्वितीयोऽपि शिवप्रदः ॥ २ ॥ द्वयोरपि विशुद्धश्री सम्यक्त्वमूलमेतयोः । तच्च स्याद्भविनां व्यक्तमव्यक्तमपि भेदतः ॥ ३ ॥ तदेव सत्यं निश्शङ्कं यञ्जिनैः प्रतिपादितम् । तदव्यक्तं भवेत् सम्यक्, तत्त्वव्यक्तेरयोगतः ।। ४ ।। व्यक्तं पुनस्तदेव स्यात्, यद्यन्मिथ्यात्वपरिक्षयात् । जीवाजीवादितत्त्वानां, हेयोपादेयबोधतः ।। ५ ।। तिर्यग्नरकयोर्द्वारे ह्येतत्सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखाप्तौ प्रतिभूः पुनः ।। ६ ।। भवेद्वैमा
प्रबन्धः ।
।। १५६ ।।