________________
कुमारपाल
। १५४।।
********
*****
देवं श्रेणिकवत्प्रपूजय गुरु वन्दस्व गोविन्दवद्दान शीलतपःप्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् ।
श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा, धर्मे कर्मणि कामदेववदहो ! चेतश्विरं स्थापय ।। १ ।। तत्र चपुरा राजगृहे राजा, श्रेणिकः श्रावकाग्रणीः । सौवर्णैः सद्यवैरष्टशतैजिनमपूजयत् ।। १ ।। तादृक् सद्भक्तियोगेन, त्रिर्जिनाच वितन्वता । तेनाज तीर्थकृन्नामकर्म कर्ममलापहम् ॥ २ ॥ यदुक्तम्-
जिणपूयणं तिसंझं, कुणमाणो सोहएइ सम्मत्तं । तित्थयरनामगुत्तं, पावइ सेणीयनरिद व्व ।। १ । इति श्रुत्वा गुरोर्भूपरिवर्जिनार्चापरायणः । पूजां प्राभातिकीं शश्वत्स्वसौधेऽसौ विशुद्धधीः ।। १ ।। वि सायं, स्पष्टमष्टोपचारतः । मध्याह्ने श्रीत्रिभुवनपालचैत्ये तु सन्महैः ।। २ ।। सा चैवम् सर्वद्धर्घा जिनचैत्यमेत्य नृपतिनॅकोत्सवाडम्बरैनिस्वानस्वनगर्जदम्बरमुरुस्त्रात्रं विधायादरात् । सामन्तैर्व्यवहारिभिः परिवृतः सर्वोपचारार्चन, कुर्वाणः प्रतिवासरं व्यरचयज्जैनेन्द्रधर्मोन्नतिम् ।। १ ।। अथैकदेवं जिनपूजनोद्यतः, कृत्वाङ्गपूजां विविधैः सुमोत्करैः । आरात्रिकस्यावसरे पुरःस्थितो, न्यभालयद्भूभृदबालभक्तियुक् ।। २ ।। सद्वर्ण कोल्लासविचित्रभङ्गिभृत्, सर्वर्तुपुष्पाविनियोगयोगतः । विशेषशोभानवगाहिनीं तथा पूजां सुभङ्गीसुभगीकृतामपि ।। ३ ।। युग्मम् ।। तथा प्रपश्यन्निति पश्यतांगुरुर्व्य. चिन्तयश्चेतसि खेदमेदुरः । मयेदमिन्दुप्रभमत्र कारितं, हर्षप्रकर्षाजिनचैत्यमुन्नतम् ॥ ४ ॥ परं सर्वर्तुजैः पुष्पैर्न पूजासंभवोऽभवत् । तेन हर्षप्रकर्षोऽपि, विफलो मे ह्यजायत ।। ५ ।। धन्यास्ते चक्रवर्त्याद्याः, सर्वद्धर्घा जिनपूजकाः । येषां ह्यनेकाः सर्वर्तुपुष्पपूर्णाः सुवाटिकाः ।। ६ ।। अधन्यशेखरो नूनमहं राजेति नामभृत् । यस्यैकमपि नोद्यानं, सर्वर्तुपरिम
प्रबन्धः
।। १५४ ।।