SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५३॥ नासावंशनिरोधनादिगणगिणत्पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति । १॥ इति तदीयममन्दनिन्दावचनमाकर्ण्य प्रभुभिरभिहितं पण्डित ! विशेषणं पूर्वमिति भवता नाधीतम् । अंतोऽतः परं । सेवडहेमड इति अभिधेयमिति । कुन्तपश्चाद्भागेन तदाहत्य मुक्तः । श्रीकुमारपालराज्येऽशस्त्रवध इति तद्वत्तिच्छेदः कारितः । स ततः परं कणभिक्षया वृतिं कुर्वाणः प्रभुपौषधशालायाः पुरतः स्थितोऽनेकभूपतितपस्विभिरधीयमानं श्रीयोगशास्त्रमाकाशठतयाऽपठदिदम् आतङ्ककारणमकारणदारुणानां, वक्त्रेषु गालिगरलं निरगालि. येषाम् । । . तेषां जटाधरफटाधरमण्डलानां, श्रीयोगशास्त्रवचनामृतमुजिहीते ॥ १॥ इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृति प्रसादीकृतवन्तः । अथैकदा सोमेश्वरपत्तने कुमारविहारे बृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः प्रभोरप्रसादाद्दष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यके प्रौढिं प्राप्य प्रभून् सिषेवे । कदाचिच्चतुर्मासकपारणके प्रसूणां पदयोदशवन्दनादनु चतुर्मासीमासीत्तव पदयुगं नाथ! निकषा, कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम । इदानीमुद्भिद्यन्निजचरणनिर्लोठितकले !, जलक्लिन्नैरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥१॥ इति विज्ञपयन् तत्कालागतेन राज्ञा प्रसन्नान् प्रभुन विस्मृश्य स पुनरपि तत्पददानपात्रीकृतः । एवमनेकधर्मनिन्दक- ॥१५३। प्रबोधा ज्ञेयाः । अथैकदा हेमाचार्यः श्रीकुमारपालभूपं प्रत्युपदेशमाह, यथा
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy