SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कुमारपाला प्रबन्धः । 1१४८॥ प्रविष्टो न निर्यातीति स्फुटनहेतुः । भ्रमहीने तु प्रासादे क्रियमाणे कारयितुः सन्तानाऽभाव इति । ततो मन्त्री-सन्तानः सुस्थिरः कस्य, स च भावी भने भवे । सांप्रतं धर्मसन्तानः, एवास्तु मम वास्तवः ॥ १॥ कि च तीर्थसमुद्धारकारिणां भववारिणाम् । भरतादिमहीपानां, पङ्क्तौ नामास्त्वनेन मे ।। २ ।। इति विमृश्य निस्सीमश्रीधर्मवीरेण मन्त्रिणा भ्रमभित्योरन्तरालं शिलातिनिचितं विधाय वर्षत्रयेण कारितः श्रीजीर्णोद्धारः ।। त्रिलक्ष रहितास्तिस्रः, कोटयो द्रव्याणि मन्त्रिणः । कर्मस्थाये तु लग्नानि, वदन्त्येवं चिरन्तनाः ॥ १ ॥ यदुक्तम् लक्षत्रयी विरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १ ॥ अथ प्रतिष्ठार्थं श्रीहेमाचार्यान ससङ्घानाकार्य महामहोत्सवः सम्वत् १२११ वर्षे शनौ सौवर्णदण्डकलशध्वजान प्रतिष्ठाप्य प्रासादे न्यवेशयत् । तत्र च देवपूजाकृते चतुर्विशत्यारामान चतुर्विंशतिग्रामांश्च दत्त्वा तलहट्रिकायां च बाहडपुरं निवेशितवान् । तत्र त्रिभुवनपालविहारः श्रीपार्श्वप्रतिमाऽलंकृतः कारितः । एवं लोकोत्तरचरितावदातैः प्रीणिताः श्रीहेमाचार्या वाग्भटमन्त्रिणमूचुः जगद्धर्माधारं सगुरुतरतीर्थाधिकरणस्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः । तदावासश्चैत्यं सचिव ! भवतोद्ध त्य तदिदं, समं स्वेनोद्दधे भुवनमपि मन्येऽहमखिलम् ॥ १ ॥ एवं सकलश्रीसङ्घः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीकुमारपालनृपं तदुदारकृत्यैरानन्दयामास ॥ ॥१४८॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy