SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मारपाल प्रबन्धः । ।१४६॥ श्चिन्तयति, अहो ! जिनधर्ममहिमा जिनार्चनलीलायितं यदहं दरिद्रशिरोमणिरपि मानितः । तस्मिश्चावसरे स्थू. ललक्षाः सामिका ऊचुः-- प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! । बन्धूनिव तथाऽप्यस्मान् , पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्राal दयोऽपि वञ्च्यन्ते, कदाचित् क्वापि धार्मिकैः । न तु सार्मिका धर्मस्नेहपाशनियन्त्रणात् ॥ २ ॥ ततोऽस्मद्धनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैर्मन्त्री तेषां नामानि लेखयामास वहिकायाम् । भीमोऽपि दध्यो यदि सप्त द्रम्मा ममापि तीर्थे लगन्ति तदा कृतार्थो भवामि, परं स्तोकत्वाद्दातुं न शक्नोमि । मन्त्रिणाऽपि तदिङ्गिताकारनिपुणेन वादितः, भो सार्मिक ! देहि त्वमपि यदि दित्सा अत्र तीर्थे विभागो महद्भाग्यलभ्य इत्युक्तः सप्तद्रम्मान ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेभ्यनामोपरि लिखितम् । एतदृष्ट्वा व्यवहारिणो विच्छायवक्त्रा मन्त्रिणा प्रोक्ताः कस्मादेवं क्रियते ? अनेन गृहसर्वस्वं दत्तम्, युष्माभिस्तु शतांशमात्रमपि न । यदि सर्वस्वं दीयते तदा भवतां सर्वोपरि नाम स्यात्, इति मन्त्रिवचसा मुदिता लज्जिताश्च । अथ मन्त्रिणा दीयमानं पञ्चशतद्रम्मपट्टकलत्रयं कोटि कः काणकपर्दव्ययेन गमयतीति निषिध्य गृहं जगाम पत्नीपिशाच्याऽविभ्यत् । तदा च पत्न्यपि प्रियंवदा प्रियवाक्यस्तं तोषितवती । कथितः सर्वोऽपि वृत्तान्तः । पत्नी प्राह, भव्यं कृतं यत्तीर्थे भागो गृहीतः । भव्यादपि भव्यं तत् यन्मन्त्रिदत्तं नाग्राहीति । अथ धेनोः स्थाणुन्यासाय भूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्कककलशो लब्धः । अहो ! पुण्योदयोऽद्य ततोऽयमपि कलशः पुण्ये दीयत इति वि ॥१४६।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy