SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मारपाल प्रबन्धः । ।१४६॥ श्चिन्तयति, अहो ! जिनधर्ममहिमा जिनार्चनलीलायितं यदहं दरिद्रशिरोमणिरपि मानितः । तस्मिश्चावसरे स्थू. ललक्षाः सामिका ऊचुः-- प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! । बन्धूनिव तथाऽप्यस्मान् , पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्राal दयोऽपि वञ्च्यन्ते, कदाचित् क्वापि धार्मिकैः । न तु सार्मिका धर्मस्नेहपाशनियन्त्रणात् ॥ २ ॥ ततोऽस्मद्धनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैर्मन्त्री तेषां नामानि लेखयामास वहिकायाम् । भीमोऽपि दध्यो यदि सप्त द्रम्मा ममापि तीर्थे लगन्ति तदा कृतार्थो भवामि, परं स्तोकत्वाद्दातुं न शक्नोमि । मन्त्रिणाऽपि तदिङ्गिताकारनिपुणेन वादितः, भो सार्मिक ! देहि त्वमपि यदि दित्सा अत्र तीर्थे विभागो महद्भाग्यलभ्य इत्युक्तः सप्तद्रम्मान ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेभ्यनामोपरि लिखितम् । एतदृष्ट्वा व्यवहारिणो विच्छायवक्त्रा मन्त्रिणा प्रोक्ताः कस्मादेवं क्रियते ? अनेन गृहसर्वस्वं दत्तम्, युष्माभिस्तु शतांशमात्रमपि न । यदि सर्वस्वं दीयते तदा भवतां सर्वोपरि नाम स्यात्, इति मन्त्रिवचसा मुदिता लज्जिताश्च । अथ मन्त्रिणा दीयमानं पञ्चशतद्रम्मपट्टकलत्रयं कोटि कः काणकपर्दव्ययेन गमयतीति निषिध्य गृहं जगाम पत्नीपिशाच्याऽविभ्यत् । तदा च पत्न्यपि प्रियंवदा प्रियवाक्यस्तं तोषितवती । कथितः सर्वोऽपि वृत्तान्तः । पत्नी प्राह, भव्यं कृतं यत्तीर्थे भागो गृहीतः । भव्यादपि भव्यं तत् यन्मन्त्रिदत्तं नाग्राहीति । अथ धेनोः स्थाणुन्यासाय भूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्कककलशो लब्धः । अहो ! पुण्योदयोऽद्य ततोऽयमपि कलशः पुण्ये दीयत इति वि ॥१४६।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy