SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ । १४५ ।। वञ्जनैः ।। ४ ।। इति तद्वचोऽमृतैरुल्लासितौ वाहडाम्बडावेकैकमभिग्रहं जगृहतुः । श्रीवाहडेन निजापरमातृकाम्बडबन्धवे दण्डनायकपदं दापितम् । स्वयं राजाज्ञामादाय रैवतके त्रिषष्टिलक्षद्रव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताऽक्षतमार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थो । मेलिता अनेके सूत्रधारा: । चैत्योद्वारं श्रुत्वा समायाता बहवो व्यवहारिणः स्वलक्ष्मीव्ययेन पुण्यविभागलिप्स्या । तदवसरे च टीमाणकवास्तव्यो भीमः कुतपिकः षड्द्रम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिकं द्रम्ममर्जयत् । रूपककुसुमैः श्रीनाभेयं मनोरङ्गेण पूजयित्वा पश्चादायातः कटकान्तरितस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणं पटमण्डपासनस्थमनेककोटीश्वरव्यवहारिश्रेणीसेव्यमानं दौवारिकैर्दूरीक्रियमाणोऽपि दृष्टवान् दध्यौ च - अहो ! मर्त्यतया तौल्यमस्य मेऽपि गुणैः पुनः। द्वयोरप्यन्तरं रत्नोपलयोरिव हा ! कियत् ॥ १॥ श्रीयतेऽयं श्रियाऽश्रान्तं पुरुषोत्तमविभ्रमात् । तदीर्ष्ययेव श्रीयेऽहमलक्ष्म्या पुरुषाधमः ।। २ ।। स्वकीर्तिस्पद्ध येवाऽयं मन्त्री विश्वोदरम्भरिः । अहं तु हतको नाऽस्मि, स्वनिर्वाहेऽपि शक्तिमान् ।। ३ ।। महान्तोऽपि स्तुवन्त्येनं, दानमानवशीकृताः । दारिद्रयोपद्रवोद्विग्ना, स्तौति मां मत्प्रियाऽपि न ||४|| - दृक्षं महातीर्थमप्युद्धर्तुमयं क्षमः । न कायमानमप्यस्मि नवीकर्तुमहं सहः ॥ ५ ॥ अयमेव ततो मन्त्री, मन्ये पुण्ये निदर्शनम् । ईदृग् लीलायितं यस्य चक्रवत्तिविजित्वरम् ।। ६ ।। इति ध्यायन् भीमो द्वाःस्थैर्गलहस्तितो मन्त्रिणा दृष्ट आकार्य पृष्टश्च । भीमेनापि घृतविक्रयलाभपूजादि कथितम् । ततः - धन्यस्त्वं निर्धनोऽप्येवं, यो जिनेन्द्रमपूजयत् । धर्मबन्धुत्वमसि मे ततः साधर्मिकत्वतः ॥ १ ॥ इति समग्र व्यवहारिसमक्षं स्तुत्वा स्वार्द्धासने बलादुपवेशित XX★★★★************ ।। १४५ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy