SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । प्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनायु पचारैः प्राप्तसंज्ञः सकरुणं क्रन्दन् सामन्तैः पृष्टः स्वमनसः शल्यकमारपालाचतुष्टयं प्राह-आम्बडस्य दण्डनायकत्वम् १, श्रीशत्रुञ्जये पाषाणमयप्रासादनिर्मापणम् २, श्रीरैवताचलनवीनपद्यानिर्माप णम ३, निर्यामकगुरुं विना मृत्युः ४ इति । ततः सामन्ताः-आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति । अत्रार्थे वयं ।१४४॥ प्रतिभवः । आराधनार्थं साधुमानयाम इत्युक्त्वा कमपि वण्ठं साधुवेषधरं कृत्वाऽग्रे चानीय समागता गुरव इति मन्त्रिणे कथयामासुः ।। मन्त्री-तं गौतममिवानम्य, क्षमयित्वाऽखिलाङ्गिनः । निन्दित्वा दुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ सम्यक्त्तं पुनरुज्ज्वाल्य, तद्दोषोन्मार्जनाजलेः । भावनाभावितः स्वर्गममात्योदयनोऽगमत् ।। २ ॥ यतः जिने वसति चेतसि त्रिभुवनैकचिन्तामणौ, कृते त्वनशने विधौ सकललोकबद्धाञ्जलिः ।। समस्तभवभावनाप्रतिकृति समभ्यस्यतां, स चान्त्यसमयः . सतां क्वचिदुपैति पुण्येऽहनि ।। १ ।। वठस्तू अहो ! मुनिवेषमहिमा, यदहं भिक्षाचरोऽपि. सर्वलोकपराभवपात्रं जगद्वन्द्यन मन्त्रिणा वन्दितः, तदयं भावतोऽपि मे शरणमिति निश्चित्य श्रीरव्रते षष्टिक्षपणैर्देवभूयं जगाम । तेऽपि सामन्ताः पत्तने श्रीचौलुक्याय वैरिलक्ष्म्यादि प्राभतीकृत्य श्रीउदयनामात्यवीरव्रतादि निवेद्य राज्ञा सह बाहडाम्बडगृहे गत्वा तयोः शोकमुत्तार्य प्रौचुः ।। युवां यदि पितृभक्ती, धर्ममर्मविदावपि । उद्धियेथां तदा तीर्थे, गृहीत्वा तदभिग्रहान् ।। १ ।। ऋणमन्यदपि प्रायो, नृणां दुःखाय जायते । यद्देवस्य ऋणं तत्तु, महादुःखनिबन्धनम् ॥ २ ॥ स्तुत्याः सुतास्त एव स्युः, पितरं मोचयन्ति ये । ऋणाद्देवऋ- णात्तातं, मोचयेथां युवां ततः ।। ३ ।। सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरन्तस्तनयाः, निन्द्यन्ते शनि ॥१४४।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy