________________
स्वस्तिश्रीमति पत्तने नृपगुरु श्रीहेमचन्द्रं मुदा, स्वः शक्रः प्रणिपत्य विज्ञपयति स्वामिन् ! त्वया सत्कृतम् । १४३॥
___ चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपतेविष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता ॥ १ ॥ - तस्य राजा लक्षं पारितोषिकमदात् । श्रीसूरिपार्श्वे पुनर्वाचितः । एवं नानावदातोद्भतयशः कर्पूरपूरसुरभितभुवनाA भोगः कुमारनृपतिरथैकदा सुराष्ट्रादेशीयं समरनामानं नृपं विग्रहीतु श्रीमदुदयनमन्त्रिणं सेनानायकं कृत्वा सकलसामन्तकटकबन्धेन प्राहिणोद्राजा । स तु पादलिप्तपुरे बर्द्धमानं नत्वा श्रीयुगादिदेवं निनंसुः पुरःप्रयाणकाय समग्रसामन्तानादिश्य स्वयं शत्रुञ्जये जगाम । विशुद्धश्रद्धामहोत्सवः स्नात्रपूजाऽऽरात्रिकादिकं विधाय श्रीजिनावग्राहिः स्थित्वा तृतीयनषेधिकीं कृत्वा चैत्यवन्दना यावद्विधत्ते तावत्प्रदीपवर्तिमादायोन्दुरः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गार्चकैस्त्याजितः । तदनु मन्त्री स्वसमाधिभङ्गकाष्ठप्रासादापायसंभावनादिदूनो ध्यातवान् ।। धिगस्मान् क्षितिपापार-व्यापारैकपरायणान् । जीणं चैत्यमिदं ये न, प्रौद्धराम क्षमा अपि ॥१॥ नपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि, मन्येऽधमतरान्नरान् ।।२॥ तया श्रिया च कि माप-पापव्यापारजातया । कृतार्थ्यते न तीर्थादौ, या निवेश्याधिकारिभिः ।। ३ ।। ईदृगुच्चैः पदं नीतः, श्रियाऽहमनया यदि । तदा ममाऽपि युक्तेयं, तन्नेतुं तीर्थरोपणात्
।। ४ ।। इति ।। तदनु जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मकभक्तभूशयनताम्बूलत्यागाद्यभिग्रहान् जग्राह । तत EC उत्तीर्य कृतप्रयाणः स्वं स्कन्धावारमुपेत्य तेन प्रत्यथिना समरे संजायमाने स्वसैन्ये भग्ने स्वयं संग्रामरसिको वैरिबलं दार-
यन् रिपुप्रहारजर्जरितोऽपि मन्त्री बाणेन समरं निहत्य तल्लक्ष्मी सहादाय तत्सुतं तत्र तत्पदे निवेश्य पश्चाद्वलितः । मार्गे वैरि
१४३।।