SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्संगमात् , तीर्णः सङ्गरसागरः किमपरं तत्स्याद्यदाशास्महे ॥१॥ हमारपाल X तथाऽपीदमस्तु श्रीश्वेताम्बरहेमचन्द्रवचसां पात्रे मम श्रोतसी, श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः । ।१४२।। त्वत्पुत्र्या कृपया समं परिचयो योगस्त्वया सर्वदा, भूयान्मे भवने यशः शशिसखं मोहान्धकारच्छिदे ॥१॥ एवं श्रीधर्मभूपं स्वराज्ये निवेश्य धर्मशालायामागत्य वन्दिताः श्रीगुरुपादाः । विज्ञप्तः सर्वोऽपि मोहविजयश्रीधर्मस्थापनादिवृत्तान्तः । श्लाघितश्चेत्थम् । यथा सत्पात्रं परिचिन्त्य धर्मनृपतिस्तुभ्यं स्वपुत्रीं ददौ, तद्योगात्त्वमजायथास्त्रिभुवने श्लाघ्यप्रियासङ्गमः । स्मृत्वाऽस्योपकृति निहत्य च रिपुं मोहाख्यमत्युत्कटं, राज्येऽप्येनमधाः कृतज्ञ ! सुचिरं चौलुक्य ! नन्द्यास्ततः ।।१।। इति श्रीगुरुदत्ताशीर्वादमुदितमनाः स्वसौधमलङ्कृतवान् । तदनु स्वजनकराज्यस्थापनवैरिमोहमारितिरस्कारसततात्माज्ञाकारितादिगुणसंपत्तोषितया प्रतिदिनप्रवर्द्धमानप्रेमप्रकर्षातिशयया कपासुन्दरीदेव्या सह निस्सीमसौख्याम्बुधिमग्नो धर्मसाम्राज्याद्वैतमयं विश्वं चकार । ' ___ अर्थकदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सभायामायातः । कृतप्रणामः पृष्टो राज्ञा, भोः ! कुतः कस्त्वं समागतः ? । तेनोक्तम् , देव ! देवेन्द्रेण प्रेषितोऽस्मि युष्मदन्तिके लेखसमर्पणाय | इत्युक्त्वा लेखमर्पितवान् । सभायां लेखः प्रस्फोटय वाचितः । यथा 来来来来来来突然来来来来来来来来来来来来来来来来来 ।।१४२।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy