SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ।। १३९॥ राजा, भो ज्ञानदर्पण ! दर्शय मोहभूमीशाश्रयम्, येन करोमि तं हतप्रतापं हेलया । ज्ञानदर्पणः, देव ! पुरस्तादालोकमात्रादपि कातरनरकृतज्वरमिदं मोहराजसौधम् । इह प्रविश्यते, ततः प्रविष्टाः सर्वेऽपि । स्थिताः प्रच्छन्नवृत्त्या । कियद्वेलं दृष्टो मोहराजः परितः परिवारश्च । श्रुतास्तदुल्लापा एवम् । तथाहि मोह:-- पुंस्कीटः किल कोsपि तिष्ठति स च श्रीमोहभूमीपतेः, प्राप्तो वैरिपदं रणाय हतको निशङ्कमुत्तिष्ठते । दोर्दण्डास्त्रिजगद्विलुण्टन कलाशौण्डास्तदेतश्चिराद्दुर्बुद्ध े रसमञ्जसं व्यवसितं दैवस्थं रे ! पश्यत ॥ १ ॥ अत्र पापत्वमात्यः, हे देव ! मनुष्यमात्रमिति माऽवमंस्था जगदेकवीरं श्रीचौलुक्यनृपतिं पश्य पश्य -- अवातरद्धरापीठे, जनस्य सुकृतोदयात् । भावितीर्थङ्करः कोऽपि रूपेणास्य महीपतेः ॥ १ ॥ मोह सक्रोधम्वज्राग्निनेव क्षपिताः, यत्प्रतापेन भूभृतः । मोहः सोऽहमहो ! कष्टं शृणोम्यरिपराक्रमान् ॥ १ ॥ इति वदन् कोपवशान्मोहः समादाय खड्गमासनादुत्थाय च अरे ! क्वाऽसौ दुरात्मा मद्वैरिपोषकः । अत्रान्तरे रागसूनुः, तात ! किमिदमस्थानक्लेशवैशसं मयैव ननु विद्धि सिद्धमरिवधकार्यम् । यतःगर्जद्गजेन्द्र भ्रमतः पयोदवृन्देऽपि यः सज्जयति क्रमं स्वम् । दृग्गोचरं तस्य गता मृगारे:, किमक्षता याति कुरङ्गजातिः ॥ १ ॥ द्वेषः - देव ! मर्त्यमात्रतपस्विनि कथं महान् संभ्रमः ? किं न विदितमात्मसूनोर्विक्रमललितम् ? । यतः - दन्ताग्रपातैर्महतो महीधान्, समूलकाषं कषति क्षितौ यः । क्षुद्रद्रुमोन्मूलनमात्रमस्य, न पूरयेत्केलिमपि द्विपस्य ||१|| इत्यादिना परेष्वपि निवारयत्सु मोहराजः प्रोचे, किं बहुना - ।। १३९ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy