SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । मत्करेण मर्तव्यमेभिरिति विधिलिपिसत्यीकरणायायात एवाहं त्वत्पृष्ट एव । त्वमपि स्वस्वामिनं धर्म च रणोत्संगे हमारपाला दर्शयेः । इत्यादिनिर्भत्सितः समायातो ज्ञानादर्शो नृपपार्श्वे । मोहोऽपि दुर्ध्यानसेनान्यादिवतो मात्सर्याभेद्यकवचधारी दुष्कृत्यप्रमादास्त्रपरंपराभासुरो नास्तिक्यद्विपारूढः कुशास्त्रवादित्रध्वनित्रासितानेकलोकः क्रोधादिभटकोटिरक्षितः ।१३८॥ समायातः श्रीचौलुक्यसेनासन्ने । निवेशितं सैन्यम् । आहूय प्रोत्साहिता रागकेशरिप्रमुखा एवं वदन्ति स्म । तथाहि रागः अहो! जाग्रति मयि को धर्मः ! कः कुमारपालः ? यतः . अहिल्यायां जारः सुरपतिरभूदात्मतनयां, प्रजानाथोऽयासीदभजत गुरोरिन्दुरवलाम् । इति प्रायः को वा न पदमपदेऽकार्यत मया, श्रमो मद्वाणानां क इव भुवनोन्मादिविधिषु ।। १ ।। . इत्युक्ते क्रोधःअन्धीकरोमि भवनं बघिरीकरोमि, धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति, धीमानधीतमपि न प्रति संदधाति ।। १ ॥ - अत्रान्तरे लोभदम्भाभिमानादयो भुजास्फोटाटोपं कोलाहलाकुलमिलामण्डलं कुर्वाणा गर्जन्ति स्म । श्रीचौलुक्यसिंहोऽपि ज्ञानदर्पणादवगतसमग्रवैरिबलप्रोत्साहोत्तेजितात्मा तृणमात्र मोहभूपं गणयन् निजसैन्यं विनाऽपि मोहं जिगीषुः श्रीगुरुप्रसादितवज्रकवचं परिधायान्तर्धानकारिविंशतिवीतरागस्तवरूपदिव्यगुटिकाश्चोपयुज्य सहजान्तर्धानपाटवपटुश्रीमदार्यधर्मराजामात्यपुण्यकेतुज्ञानदर्पणादिस्वल्पसहायः सैन्यप्रच्छन्नवृत्त्या प्रतस्थे प्राप्तश्च क्षणादेव प्रत्यर्थिस्कन्धावारम् । ॥१३८॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy