________________
। १३७।।
न्दरी निजसुता श्रीकुमारभूमीभुजे । जातः संबन्धबन्धः । संप्रति तु शरणागतवज्ज्रपञ्जर आश्रितवत्सलश्च समीहते श्वसुरं स्वराज्येऽभिषेक्तुं कृतज्ञचूडामणिः श्रीचौलुक्यकुलपर्वतः । संप्राप्त एव त्वामभिषेणयितुं ससैन्यश्रीधर्म सहायः श्रीचौलुक्यस्त्वत्पुरासन्ने । तस्मात्तत्रागत्य तदाज्ञामाल्यसुरभितं कुरु स्वशिरः । तदनु श्रुत्वैतन्मोहमहाराजो मुखमोटिकापूर्वं प्राह रे दूत ! वाचाट किमेवं प्रलपसि ? कोऽयं पुंष्टिट्टिभः कुमारपाल ? यदेवं निर्वासितवाकधर्म नृपाधमप्रेरितो मां त्रिभुवनागतेयपराक्रममभिभवितुमभिवाञ्छति । न खलु सकल त्रिभुवनाभोगाक्रमणालङ्कमणप्रतापवैभवः श्रीमोहभूमीपालः परोलक्षैरपीदृशैर्नृपकीटकैर्भापयितव्यः । रे दूताधम ! याहि ज्ञापय स्वराज्ञे समागत एव मोहः । ज्ञानदर्पण: प्रोचे, रे मोह ! नृपपाश ! किमेवं गर्जसि ? शृणु
यस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तव वल्लभं निजपुराद्देशाच्च निर्वासितं द्य ताद्य विटपेटकं शितिमुखं तत्कि मुधा गर्जसि ? ॥ १ ॥
मोहराजः पुनरूचे रे दूत ! -
असौ धर्म परं केन मुखेन प्राप्तवानिह । यो मया क्लीबवच्चक्रे, स्थानभ्रष्टो निजौजसा ।। १ ।। वर्षीयस्त्वात्पुरो जीवन्मुक्तोऽयं सांप्रतं मया । करिष्यते रणमुखे निश्चितं प्रथमाहुतिः ।। २ ।। युक्तं धर्मोऽतिवृद्धत्वाञ्जज्ञे मरणसंमुखः । परं परार्थं त्वद्भूपः किं मुमूर्षति मूर्खवत् ॥ ३॥ हु' ज्ञातं धर्मनन्दन्या, प्रेरितस्तातसंपदे । म्रियतेऽयं हहा ! योषिद्वश्यानां कियती हि धीः ।। ४ ।।
*******************
।। १३७।।