SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः कुमारपालन ॥१३४।। EXXXXXXXXXXXXXXXXXXXXXXXXXX इह भरहनिवाओ जं न केणावि चत्तं, मुयइ मयधणं जो तंपि पाविकमूलं । नियजणवयसीमं मोयए जो य जूयप्पमुहवसणचकं सो वरो मज्झ होउ ।। १॥ मतिप्रकर्षः, प्रतिज्ञातमेव श्रीहेमचन्द्रपादाम्बुजसमक्षं निर्वीराधनमोक्षणं सप्तव्यसननिर्वासनं च देवेन इति संपूर्ण एव पणबन्धः । किञ्चाऽभक्ष्यमयं त्यक्त्वा, परनारीपराङ्मुखः । स्वदेशे परदेशे च, हिंसादिकमवारयत् ॥ १॥ इति श्रुत्वा मुदितो धर्मभूपः । निवेदितं विरतिपत्न्याः। पृष्टाः सदागमशमादिमहत्तराः । श्रीधर्मासन्नस्थाभिरेतत् श्रुत्वा मुदिता मैत्रीसमतासखीभिर्जापितं कृपासुन्दर्याः । इति सिद्धप्रायं प्रयोजनमिति निश्चित्य धर्मविसृष्टः प्राप्तः श्रीकुमारनपाभ्यर्ण मतिप्रकर्षः । विज्ञप्तः समग्रोऽपि पुरुषद्वेषपणबन्धादिव्यतिकरः । निष्पन्नाप्रायमिदमित्याद्यक्षररमृतायमानः पुनः कथ्यतां * पुनः कथ्यतामिति इत्यादि वदन् परममुदम्भोधिमग्नः समजनि भूजानिः । ततो महता महेन प्रवेशितश्च श्रीधर्मभूपाल: * सपरिकरः स्वराजधानीमण्डपे । अथ संप्राप्ते शुभलग्ने निर्मलभाववारिभिः कृतमङ्गलमजनः सत्कीतिचन्दनावलिप्तदेहो नकाभिग्रहोल्लसद्भूषणालङ्कृतो दानकङ्कणरोचिष्णुदक्षिणपाणिः संवेगरङ्गद्गजाधिरूढः सदाचारछत्रोपशोभितः श्रद्धासहोदरया क्रियमाणलवणोत्तारणविधिः त्रयोदशशतकोटिवतभङ्गसुभगजन्यलोकपरिवतः श्रीदेवगुरुभक्तिदेशविरतिजानिनीभिर्गीयमानधवलमङ्गलः क्रमेण प्राप्तः पौषधागारद्वारतोरणे पञ्चविधस्वाध्यायवाद्यमानातोद्यध्वनिपूरे प्रसर्पति विरतिश्वश्र्वा कृतप्रोणाचारः शमदमादिशालकदर्शितसरणिर्मातृगृहमध्यस्थितायाः शीलधवलचीवरध्यानद्वयकुण्डलनवपदीहारतपोभेदमुद्रिकाद्यलङ्कृतायाः कृपासुन्दर्याः सव्वत् १२१६ मार्गशुदिद्वितीयादिने पाणि जग्राह श्रीकुमारपालमहीपालः |१३४॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy