SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ।। १३२ ।। वैरभावः कटकबन्धश्च प्रवर्तते । द्वयोरप्यनिशं युद्धोत्सवः । परं कदाचित्कस्यचिज्जयः, अपरस्य तु पराजयः । गतश्च भूयाननेहाः । अत्रान्तरे श्रीचौलुक्यो युद्धवीरतयोच्छ्वसितमनोवृत्तिः प्रोचे, भगवन् ! सम्यगवगम्यमानोऽयं प्रबन्धः प्रीणयति मम सभ्यानां चान्तरात्मानम् । परं द्वयोर्नृपयोरेकदा सैन्यादिस्वरूपं श्रोतुमुत्सुका मनोवृत्तिः, तत्प्रसद्य प्रभवा निवेदयन्तु इत्युक्ते राज्ञा सूरयः, हे परमार्हत ! विचारचतुर्मुख ! श्रीकुमारपाल ! सूक्ष्माभोगेन परिभावनीयमेतन्निरूप्यमाणम् । तथाहि- धर्मनरेन्द्रस्य सदागमो मन्त्री । सदासद्बुद्धिदानदक्षोऽपरावर्त्यश्चापरैर्नृपान्तरैः । विवेकचन्द्रः सेनाध्यक्षो विपक्षक्षोददीक्षितः । शुभाध्यवसायः परिचारकः । सम्यक्त्वयमनियमाद्याः भटाः । किमुच्यते बहुः, राजन् ! धीरशान्तः श्रीधर्मभूमीन्द्रः । अथ मोहनृपतेः कदागमो मन्त्री सर्व दुर्बुद्धिमूलमन्दिरम् । अज्ञानराशिः सेनानीः । मिथ्यात्वदुरध्यवसाया भटाः । धीरोद्धतश्चायं मोहः । एवं सति संप्रति प्रच्छप्रबल दुष्टेष्टविघातककलिकालसहायिकरालविलसितैः समजनि समुञ्जीवितो मोहराजः । प्रवर्तितं सर्वत्र स्वाज्ञैश्वर्यम् । पराभूय निर्वासितः श्रीधर्मनृपतिः सपरिकरः । राजा - किमग्रतः ? । सूरिः - भ्रामं भ्रामं सर्वत्र श्रान्तः क्वापि स्थिति• मलभमानः सांप्रतं श्रीगुर्जरत्राभरित्रीशिरोमणीयिते श्रीमति पत्तनमहास्थानेऽस्मदाश्रममाश्रित्य मनाक् स्वस्थीभवन् समयाकरोति श्रीधर्मभूभुग् । श्रोचीलुक्य ! तव सौराज्याभ्युदयेन तु संजातबलोत्सर्पणः स्वं प्रौढिमानमासादयिष्यत्येवेति मन्यामहे त्वामेव शरणागतवज्रपञ्जरं राजानम्, इति सूरीन्दुवचोऽमृतैः पुनर्नवीभवन् कृपासुन्दरीप्रौढि श्रुत्वा संजात प्रबन्धः । ।। १३२ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy