________________
।। १३१ ।।
हृतमन्मनाः कस्येयं कन्या ? किं नाम्नी ? । ततः सूरिरपि राजकुञ्जरं रागातिशयोल्लासिनं ज्ञात्वा तन्मनोविलोभनाय तस्याः कुलशीलादि प्राह, हे चौलुक्यचन्द्र ! दत्तावधानः शृणु । विमलचित्ताह्वं पुरं विनयसालमर्यादापरिखोल्वणम् तत्राद्धर्मनामा नृपः यन्महिमैवम्-
सुकुलजन्मविभूतिरनेकधा, प्रियसमागम इष्टपरंपरा । नृपकुले गुरुता विमलं यशो, भवति धर्मनरेश्वरसेवया ।।१।। असौ सेव्यमानस्त्याजयत्यवस्तुप्रतिबन्धम्, प्रवर्तयति सत्क्रियासु, पालयत्यात्मवत्स्वाश्रितमित्यादिगुणयोगात्सुराजेति प्रसिद्धः । तस्यास्ति विरतिः पत्नी देवेन्द्रैरप्यलभ्यदर्शना समग्रहिकामुत्रिक सौख्यप्राप्तिहेतुः । तयोश्च शमदमादयस्तनूजाः । अथैकदा तयोः पुत्रीजन्म । तेन खिन्नमनोवृत्ती वीक्ष्य सुतापितामहो विश्ववेदी जिनः प्राह सुता जाता इति किं खेदं वहथ ? इयं सुतादप्यधिका भवित्री युवयोः स्वभर्तुश्च लोकोत्तरप्रतिष्ठाप्रापकत्वेन । ततो हृष्टाः सर्वे । कृतो जन्मोत्सव कृपासुन्दरीति नाम दत्तम् । जाता संप्रति यौवनस्था । तादृग्मनोमतवराऽप्राप्तेर्वृद्धकुमारीति लोके प्रसिद्धा । अथ राजा प्राह, भगवन् ! अत्रागमनकारणं निवेदयन्तु । सूरयः प्रोचुः सावधानैः श्रोतव्यम्,
राजन् ! राजसच्चित्तपुरे मोहनामा नृपोऽपसदो राज्यं भुनक्ति । स च मोहचरटो लीलयाऽपि राजानं रङ्कयति । शक्रादीनपि स्वाज्ञाकारिणः करोति । महतोऽपि दासीकुरुते । प्रवर्तयति महापापक्रियासु । किं बहुना -- त्रैधे जगति कोऽप्यस्ति, न देवो नापि मानवः । यस्तदाज्ञां विना स्थातुं शक्नोति क्षणमप्यहो ! ।। १ ।। तस्याऽविरतिर्जाया जगत्त्रयवल्लभदर्शना सुखासेव्या च । तयोः सुताः कोपाद्याः । पुत्री हिसानाम्नीति । एवमनयोर्धर्ममोहनृपयोरनादिसिद्धो
।। १३१।