________________
॥१२७॥
तिकोत्सवः । श्रीचौलुक्यऽपि हस्त्यारूढो धृतश्वेतातपत्र: सर्वसामन्तादिपरिवृतः श्रीगुरुचरणारविन्दवन्दनार्थं समागाद्यावत्तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणस्वरं शुश्राव । ततस्तामेव रात्रौ दृष्टां कण्टेश्वरीं मन्त्रयन्त्रितां च पश्यति । साऽपि देवता - राजन् ! मां जीवन्तीं मोचय श्रीप्रभुप्रयुक्तमन्त्रबन्धात् । तवाज्ञाऽवधिदेशेषु जीवरक्षातलारक्षत्वं करिष्यामीति राजानं विज्ञपयन्ती श्रीगुरून् प्रसाद्य मोचिता । तदनु अष्टादशदेशेषु जीवरक्षातलारक्षतां कुर्वती सुखेन तिष्ठति राजभवनद्वारे | यदुक्तं च
या पूर्वं नवमीमहेषु महिषस्कन्धत्रुटत्कीकसत्राट्कारैरजनिष्ट कर्णकटुकैः कण्टेश्वरी नश्वरी ।
सा पीयूषपराङ्मुखी रसयति श्रीहेमसूरेर्गुरोर्गीतं मारिनिवारि राजभवनद्वारि स्थिता सुस्थिता ॥ १ ॥ शालान्तर्गत्वा गुरुपादपद्म वावन्द्य हस्तयुगमायोज्याह भूमीश्वरः, भगवन् ! जिह्वयैकया त्वत्प्रभावो जगञ्जीवातुः कथं स्तोतव्यः ? त्वत्प्राच्योपक्रिया अद्याप्यकृतनिष्क्रया जाग्रति अद्यतन्याः पुनः कतमोऽस्तु निष्क्रयः ।। सीमा सर्वोप कारेषु, यत्प्राणपरिरक्षणम् । चूलेव तस्योपर्येषा, यन्मे सद्धर्मबोधनम् ।। १ ।। प्रक्षाल्याक्षतशीत रश्मिसुधया गोशीर्षगाढद्रवैलिप्त्वाभ्यर्च्य च सारसौरभभरस्वर्णप्रसूनैः सदा । त्वत्पादौ यदि वावहीमि शिरसा त्वत्कर्तृको पक्रियाप्राग्भारात्तदपि श्रयामि भगवन्नापर्णतां कर्हिचित् ।। २ इत्थं राज्ञो वचः पथातिक्रान्तकृतज्ञतया प्रभुर्भृशं तुष्टः प्राह उपदेशव्यपदेशेन राज्ञः स्तुतिम् —
"क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थी यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
।। १२७ ।।