________________
मारपाल
प्रबन्धः ।
१२६॥
EXXXXXXXXXXXXXXXXXXXXXXXXXXX
वचांसि भाषते इत्यादि वदति स्म राजा ।। शृण-भवे भवे भवेद्देहो, भविनां भवकारणम् । न पुनः सर्ववित्प्रोक्तं, मुक्तिकारि कृपाव्रतम् ।। १ ।। अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पजत्तं ॥२॥ तथा-आराधितो जिनो देवो, हेमसूरिगुरुर्नतः । निर्मितश्च दयाधर्मो, न्यूनमद्यापि कि मम? ॥३॥ श्वासश्चपलवृत्तिः स्यात् , जीवितं च तदात्मकम् । तत्कृतेऽहं कथं मुञ्चे, स्थिरां मोक्षकरी कृपाम् ।। ४ ।। मरणात्पापी बिभेति न पुण्यवान् । यतः
अहियं मरणं अहियं, च जीवियं पावकम्मकारीणं । तमसंमि पडंति मया, वेरं वड्रंति जीवंता ।।१।। ततस्त्वरस्व, कुरु चितां चन्दनैः, रात्रिगुप्तकर्मकामधुक इत्युक्तो मन्त्री राजानं प्राह पुनः, राजन् ! एकशः श्रीगुरवः पृच्छयन्ते, गुर्वादेशवशंवदानां गुरुरेव प्रमाणं इत्युक्त्वा राजानमाश्वास्य गतः श्रीहेमचन्द्रसूरिपार्श्वे निवेदितश्च सर्वोऽपि व्यतिकरः । श्रुत्वा चैतत् सूरिः प्राह, मन्त्रिन् ! कृतं मृत्युवार्तयाऽपि, आनय शीघ्रमुष्णोदकं, येन सूरिमन्त्रेणाभिमन्त्र्य ददामि तदानीते तथैव कृत्वाऽपितं पयः । मन्त्री गतो नपपार्श्वे, दर्शितं गुरुप्रसादीकृतं पयः । राजाऽपि मूर्त श्रीगुरुप्रसादमिव मन्यमानस्तत्पयः पपौ, शरीरं छण्टितम् , तेन च पीतमात्रेण सिद्धरसेनेव राज्ञो देहो देदीप्यमानकान्तिमयः सकलकल्याणमयश्च जज्ञे ।। महान हर्षस्ततो राज्ञो, मन्त्रिणोऽप्यजनि क्षणात् । वपुर्वीक्ष्याधिकज्योतिः, पूर्वतोऽपि जलात्ततः ।। १ ।। वाचामगोचरः सूरेः, प्रभावो जगदद्भुतः । ईदृक्षमपि यः कष्टं, धन्वन्तरिरिवाहरत् ॥ २॥ अहो! गुरोर्मयि महती कृपालुता, निस्सीमः श्रीजैनमन्त्राणां महिमा इति परस्परमानन्दमेदुरवार्तालापर्नुपमन्त्रिणो रात्रिराक्षसी प्रणष्टा । जातः प्राभा
॥१२६॥