________________
यन् । कुलदेव्यामपि द्वेष, न पुपोष महामतिः ॥ २ ॥ यतः।१२५॥
सव्वो पुवकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेषु य, निमितमित्तं परो होइ ॥ १ ॥
अथोदयनमन्त्रिणमाकार्य देवीव्यतिकरं प्राह, स्वदेहं चादर्शयत । तदर्शनादेव वजाहत इव मन्त्री हृदि शल्यितो जज्ञे । राजाह, मन्त्रिन् ! न मे कुष्ठादि बाधते किन्तु मद्धे तुकं जैनधर्मे लाञ्छनं नवम् । यतः परतीथिका एतज्ज्ञात्वा वदिष्यन्ति-'अहो! जिनधर्मफलं राज्ञ इहैव जातम् । अन्योऽपि कोऽपि यः स्वकुलक्रमागतं धर्म त्यक्त्वाऽपरं धर्म करिष्यति स कुमारपालभूपवत्कष्टपात्रमत्रापि जायते । ब्राह्मणा अपि अस्मद्देवसूर्यादिसेवया कूष्ठादि सर्व विलीयते जैनसेवया तु प्रादुःष्यात् इत्यादिवदन्तो धर्मनिन्दां विधास्यन्ति । ततो यावत्कोऽपि न वेत्ति तावद्रात्रावेव बहिरात्मानं तृणयिष्यामि वह्नौ', इति भूपोक्ति श्रुत्वा मन्त्री प्राह, 'हे श्रीचौलुक्यावतंस ! त्वयि जीवति राजन्वतीयं वसुमती, सर्वोपा
यस्तु स्वामिरक्षैव कार्या । यतःPe. जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खिज्जा । न हि तुंबंमि विणद्वे, अरगा साहारगा हुँति ॥१॥
"शरीरमाद्य खलु धर्मसाधनं" यस्मिन् सर्वजनीनपीनमहिमा धर्मः प्रतिष्ठां गतो, यस्मिश्चिन्तितवस्तुसिद्धिसुखदः सोऽर्थः समर्थः स्थितः ।। यस्मिन् काममहोदयौ शमरसीकाराभिरामोदयौ, सोऽयं सर्वगुणालयो विजयते पिण्डः करण्डो धियाम् ।।१॥ अतः स्वामिन् ! स्वात्मरक्षायै पशवो दीयन्ते देवीभ्यः, इति मन्त्रिवचः श्रुत्वा निःसत्त्वो वणिग भक्तिग्रथिलो भक्ति
।।१२५॥