SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुमारपाल । १२४।। ण्टेश्वरी त्रिशूलव्यग्रहस्ताऽऽगत्य राजानमाह, हे चौलुक्य ! तव कुलदेवी कण्टेश्वरी अहम् । ऐषमोऽस्मद्देयं सर्वपूर्वजैः पुरा दत्तं कस्मात्त्वया नादायि ?, राजन् ! नोल्लङ्घनीया कुलदेवता कुलक्रमाचारश्च प्राणान्तेऽपि । इति श्रुत्वाऽऽह नृपः, हे कुलदेवते विश्ववत्सले ! संप्रति सज्जीवदयात्मकधर्ममर्मज्ञो नाहं जीवान् हन्मि । यश्चाज्ञातधर्मतत्त्वः पूर्वजैर्मया च जीववधवक्रे पुरा, स ममान्तरात्मानं संतापयति । यतः - "घाएण य घायसयं, मरणसहस्सं च मारणे वावि । आलेण य आलसयं, पावइ नत्थित्थ संदेहो ॥ १ ॥ वहमारणअभक्खा.... I ।। २ ।। यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ।। ३ । देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम् ॥ ४ ॥" इत्यादि शास्त्रदृष्टिः कथं जीवहत्यां कुर्वे ? ।। तवापि देवि ! नो युक्तं, जीवहसा विधापनम् । देवता हि दयागृह्याः, शास्त्रे लोके च विश्रुताः ।। १ ।। यदि सत्यतयाऽसि त्वं ममेह कुलदेवता । तदा जीवदयाकार्ये, साहाय्यं कर्तुमर्हसि ॥ २ ॥ कर्पूरादिमयो भोगस्तव चक्रे मयोचितः । कृमिभक्ष्याणि मांसानि न ते योग्यानि सर्वथा ।। ३ ।। मांसं जीवन स्यात्, न जीवं हन्मि सर्वथा । तस्मात्त्वं मत्कृतैर्भोगैः, सन्तुष्टा भव सांप्रतम् ॥ ४ ॥ इति वदन्तं भूपं मूर्ध्नि त्रिशूलेन हत्वा दुष्टा तिरोऽभूत्कण्टेश्वरी । तेन दिव्यघातेन तत्क्षणमेव नृपः सर्वाङ्गीणदुटकुष्ठादिरोगग्रस्तोऽजनि । दृष्ट्वा तत्तादृशं कुष्ठं, भूभुग् वैराग्यमागमत् । संसारे स्वशरीरे च, नाहेद्धर्मे मनागपि ।। १ ।। स्वकर्म खलु भोक्तव्यमवश्यमिति चिन्ते प्रबन्धः । ।। १२४ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy