SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जन्तुहत्यापातकान्न बिभेषि तर्हि मत्तोऽपि न इति सर्वनगरसमक्षं हक्कितः । मम राज्ये न जीववध इति कृत्वा गहसर्वस्वं कुमारपालत्रि व्ययीकृत्य यूकाविहारं कारय, यथा तं विहारं दृष्ट्वाऽतः परं न कोऽपि जीववधमाचरति । एवं नपाज्ञया महेश्वरश्रेष्ठिना प्रबन्धः। पत्तने यूकापापप्रायश्चित्ते गृहसर्वस्वेन यूकावसतिः कारिता ॥ १२२॥ एवं चरत्सु चौलुक्यचरेषु क्वापि जन्तवः । न गेहेऽपि बहिर्नापि, केनापि विनिपातिताः ॥१॥ ततः सर्वत्र जन्तुराशिरनेकधा । तीर्थे यथा जिनेन्द्रस्य, चौलुक्यस्य तथा भुवि ॥ २॥ अमारिकरणं तस्य, वर्ण्यते किमतः परम् । धू तेऽपि कोऽपि यनोचे, मारिरित्यक्षरद्वयम् ।। ३ ।। व्याधान वीक्ष्य विहारिणः शिशुमृगाः स्वोक्त्या पित्ऋनूचिरे, यामः सान्द्रलतान्तरेष्विह न चेदेते हनिष्यन्ति नः । ते तान् प्रत्यवदन बिभोत किमितो वत्साः ! सुखं तिष्ठत, श्रीचौलुक्यभिया निरीक्षितुमपि प्रौढा न युष्मानमी ।। ४ ।। आकल्पं भगवानसौ विजयतां श्रीहेमसूरिप्रभुर्यद्वाक्यविहितोद्यमे नरपतौ । हिंसां समुच्छिदन्ति । शङ्के शङ्करवल्लभाऽपि महिषप्राणोपसंग्राहिणी, संत्रासाकुलचित्तवृत्तिविधुरा धत्ते तनौ । तानवम् ।। ५ ।। कलाकलापैः स्तुमहे महेन्द्र, श्रीहेमचन्द्रं नुमहे न चन्द्रम् । ररक्ष दक्षः प्रथमः समग्रान् , मृगान् । यदन्यो मृगमेकमेव ।। ६॥ तथाद्यूतं च मांसं च सुरा च वेश्या, पापद्वि चौर्य परदारसेवा। एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति ।।१।। . धू ताद्राज्यविनाशनं नलनपः साप्तोऽथवा पाण्डवाः, मद्यात्कृष्णनृपश्च राघवपिता पापद्धितो दूषितः । ॥१२२॥ मांसाच्छ णिकभूपतिश्च नरके चौर्याद्विनष्टा न के?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमतो रावणः ।।२॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy