________________
।१२।।
हेन तदाप्नोति, अपूतजलसंग्रही ।। ३ ।। यः कुर्यात्सर्वकार्याणि, वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी स महाव्रती ॥ ४ ॥ म्रियन्ते मिष्टतोयेन, पूतराः क्षारसम्भवाः । क्षारतोयेन तु परे, न कुर्यात्संकरं ततः ।।५।।
इति श्लोकपत्रिकाहस्ताः स्वाप्तजनाः स्वदेशे स्ववशापरमहीशदेशेषु च प्रहिता जीवदयादिनिमित्तम् ॥ तथाषट्त्रिंशदमुलायाम, विंशत्यालविस्तृतम् । दृढं गलनकं कार्य, भूयो जीवान् विशोधयेत् ।। १।। सांख्यशास्त्रेत्रिंशदगुलमानं तु, विंशत्यङ्गुलमायतम् । तद्वस्त्रं द्विगुणीकृत्य, गालयित्वोदकं पिबेत् ॥ १॥
तस्मिन् वस्त्रे स्थितान् जन्तून्, स्थापयेजलमध्यतः । एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥२॥ इति लिङ्गपुराणोक्तविधिना राज्ञो गृहे एकादशशतहस्त्येकादशलक्षतुरङ्गाऽशीतिसहस्रगवादयो गलितजलं पाय्यन्ते स्म । राजाज्ञया च सर्वत्र स्थाने स्थाने देशे देशे पुरे पुरे ग्रामे ग्रामे चामारिपटहा न्यायघण्टाः श्रीचौलुक्येन राजसिंहद्वारे बन्धिताः । एवं प्रवर्त्तमाने जीवरक्षामहोत्सवे श्रीकुमारपालनपः किं कोऽपि कुत्राऽपि जन्तून् हिनस्ति न वा? इति ज्ञातुं विष्वक् प्रच्छन्नचरान् स्वचरान् प्रेषीत् । ते चाजस्रं सर्वदेशेषु भ्रमन्तो हिंसकान् प्रेक्षमाणाः सपादलक्षदेशे कस्मिश्चिद्ग्रामे महेश्वरवणिजा वेणीविवरणे भार्यया शिरःकर्षितां हस्ते मुक्तां यूकामेकां व्यापाद्यमानां दृष्टवन्तः । ततस्तैश्चरैः स श्रेष्ठी यूकासहितः पत्तने नीतो राज्ञोऽग्रे । राजाऽऽह, रे दुष्टचेष्टित ! किमिदं दुष्कर्म कृतम् ? इत्याह । श्रेष्ठी प्राह, एषा मम मूद्ध नि मार्ग कृत्वा रक्तं पिबतीत्यन्यायकारित्वाद्व्यापादिता । राजा, रे दुष्टवादिन् ! जीवानां स्वस्थितिर्दुस्त्यजा इति जानन्नपि हतवांस्तथा यथैनां हतवांस्तथा ममाज्ञाखण्डनापराधकारी त्वमपि हन्तव्यपङ्क्तौ प्राप्तः यदि रे!
EXXXXXXXXXXXXXXXXXXXXX
||१२१॥