________________
। ११५ ।।
त्विघूककुलेष्वमावास्यावतारः सम्यग्दृष्टिकुलकमलेषु सततसूर्योदयश्च । किं बहुना --
भाग्यैर्जागरितं सतामविरतं पुण्यश्रिया गर्जितं पापैः संकुचितं मुनीश्वरगुणैरुज्जम्भितं सर्वतः । श्रीसङ्घानघमानसंविहसितं चौलुक्यभूमीविभो, सम्यक्त्व समुपेयुषि त्रिभुवने जातः प्रभातोदयः ।। १ ।। तस्मिन् प्रस्तावे कश्चित् कविः --
सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि नै, नो राकाशशिना विना बत! भवत्युञ्जागरः सागरः ॥ १ ॥ एतदौचित्यदाने लक्षम् । तदनु श्रीकुमारो महेश्वरादिप्रतिमाः पूर्व जकारिताः सर्व राजन्यसमक्षं ब्राह्मणेभ्यो दत्त्वा चतुविंशतिश्रीजिनप्रतिमाः सौवर्णीः स्वसदने हृदये च स्थापयामास श्रीहेमसूरिपादुकाश्र्व ।। स तात्रिकालमभ्यर्च्य कर्पूरकुसुमादिभिः । जज्ञे विज्ञेश्वरः सम्यक्, सुकृतामोदमेदुरः ॥ १ ॥ एवं श्रीजिनराज पूजाश्रीगुरुपर्युपास्त्यादिपरः कदाचित् श्रीचौलुक्यः श्रीहेमाचार्यैर्दीयमानं सर्वजीवदयापालनोपदेशमेवमशृणोत् ।। तथाहि
कल्ला कोडिजणणी, दुरंत दुरियारिवग्गनिद्दलणी । संसारजलहितरणी, इक्कुच्चिय होइ जीवदया ।। १ ।। किं सुरगिरिणो गुरूयं जलनिहिणो किं च हुज गंभीरं । किं गयणाओ विशालं, को अ अहिंसा समो धम्मो ।। २ ।। देहिनः सुखमीहन्ते, विना धर्मं कुतः सुखम् । दयां विना कुतो धर्मस्ततस्तस्यां रतो भव ।। ३ ।। तथाददातु दानं विदधातु मौनं, वेदादिकं चाऽपि विदाङ्करोतु । देवादिकं ध्यायतु सन्ततं वा न चेद्दया निष्फलमेव सर्वम् ।। १ ।।
।। ११५ ।।