SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कुमारपाल । ११४।। बहुमानः पूर्वमण्डितद्वासप्ततिजिनरत्न सुवर्णादिप्रतिमाभिरामनन्दौ दत्तप्रदक्षिणात्रयः श्रीजिनवन्दनपूजनादिसकलशुद्धविधिपूर्वकं विश्वैश्वर्यमिव सम्यक्त्वमूलं द्वादशविधं श्राद्धधर्मं श्रीहेमाचार्यविश्राणितं जग्राह । तदा -- धर्मलक्ष्मीं पुरस्कृत्य वधू वर इवारुचत् । भ्राम्यन् समवसरणं, पावकं परितो नृपः ।। १ ।। चौलुक्ये • साधुनिक्षिप्तैः क्षोदैः श्रीखण्डजैस्ततः अकालेऽपि तदा लेभे, क्रीडा वासन्तिकी जनैः ॥ २ ॥ श्रीसङ्खेनाप्यक्षताः क्षिप्ता नृपं प्रति । सूरयोऽपि प्रतिपन्नधर्मस्थिरीकरणाय शिक्षामेवं ददुः । यथा कोशाद्विश्वपतेर्विकृष्य गुरुणा प्राणावनादिव्रत - स्फूर्जन्मौक्तिकदामविस्तृतगुणं सम्यक्त्वसन्नायकम् । तुभ्यं दत्तमिदं महीधव ! वहन्ं हृद्यन्वहं जीववत् त्वं सौभाग्यभरेण मुक्तियुवतेर्भावी प्रियंभावुकः ।। १ ।। अपि च यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां यन्मूलं जिनशासने सुकृतिनां यञ्जीवितं शाश्वतम् । तत्सम्यक्त्वमवाप्य पूर्वपुरुषश्रीकामदेवादिवद्दीर्घायुः सुरमाननीयमहिमा श्राद्धो महद्धिर्भव ।। २ ।। इत्यादि । एवं महोत्सवे प्रवर्त्तमाने श्रीसङ्घो हर्षप्रकर्षात्, 'धर्मात्पा राजवश्व' अयं श्रीचौलुक्य इति नामद्वयं दत्तवान् । राजाऽपि • लब्धविश्वाद्भुतनामद्वयः श्रीसङ्घान् रत्नसुवर्णाभरणपट्टकूलादिभिः पूजयामास । समग्र चैत्येषु महान्तमष्टाहिकामहं कारितवांश्च ।। विवेकिनां पुण्यवतां धुरि स्थितः श्रीगूर्जराधीश्वर एष सत्तमः । दुरन्तमिथ्यात्वमलं निरस्य यः, सुनिर्मलात्माऽजनि विश्ववत्सलः ।। १ ।। इत्यादि नृपस्तुतितत्परा महाजनास्तदा मङ्गलोपचारान् कुर्वन्ति स्म सर्वत्र । जातश्च मिथ्या प्रबन् ।। ११४ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy