________________
||११३॥
आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किशलयतु स वः शाश्वती मोक्षलक्ष्मीम्॥१॥(स्र०)
राजा सपादलक्षं पारितोषिकमदात् यथौचित्यमपरेऽपि पार्षद्याः । तदनु राजा सञ्जातधर्मदृढानुरागः स्वं सौधमलञ्चकार । देवबोधिरपि ज्ञातश्रीहेमाचार्यकलाप्रागल्भ्यमहिमातिशयो बाह्यवृत्त्या सूरिगुणग्रहणं कुर्वन सर्वत्र मिलति । कदाचिच्छालायामायाति । राजगुर्वादिप्रेरितो नपं विप्रलम्भयति । राजाऽपि प्रकाशान्धकारान्तरालस्थित इव सूरिदेवबोधिभ्यां कृतः कियन्तं कालम् । अथैकदा गुरु राजा जजल्प ॥ प्रभो ! मिथ्यात्वधत्तूरास्वादभ्रान्ततया मया। लेष्टुर्हेमेब बुद्ध प्रागतत्त्वमपि तत्त्ववत् ।। १।। अधुना तु श्रीगुरुवाणीशर्करास्वादेन गतभ्रमो निःशेषं धर्मादितत्त्वं 'यथास्थितं ज्ञातवान, तत्प्रसादं कृत्वा जितकल्पद्रुचिन्तामणिकामकुम्भादिवैभवं सम्यक्त्वमूलं श्रावकधर्म मयि निवेशय । सूरयो जिनधर्मदित्सया सन्मुहूर्त विलोक्य राज्ञे ज्ञापितवन्तः । राज्ञाऽपि सर्वसाक्षित्वं श्रीधर्मप्रतिपत्तेश्चिकीर्षताऽपरलोकधर्मस्थिरीकरणाथ जिनशासनमहोन्नतिविधित्सुनाऽऽकार्यन्ते स्म निर्मलज्ञानादिगुणभूरयः श्रीसूरयः सर्वनगरादिस्थाः तीर्थकृन्नमस्करणीयत्वादिजाग्रन्महिमौघाः श्रीसङ्काश्च । सज्जीकार्यन्ते स्म श्रीसङ्घसत्काराय रत्नसुवर्णपट्टकूलादीनि कर्परपूरपूरितसुगन्धगन्धस्थालानि विशालानि । दाप्यन्ते स्म सर्वत्रामारिपटहाः । सिच्यन्ते स्म गन्धोदकैः सकलनगरमार्गाः । वाद्यन्ते स्म विविधातोद्यनिःस्वानानि सर्वत्र । एवं च सम्प्राप्ते सल्लग्ने श्रीचौलुक्यभूवासवः कनकपत्रवास परिधानमुकुटपामक्षयङ्करहारचन्द्रादित्याभिधकुण्डलाद्यलङ्कारसमलकृतो द्वासप्ततिसामन्तादिसमग्रनागरादिपरिवृतः स्वपट्टगजेन्द्रादुत्तीर्य शालाद्वारमायातः, श्रीमदुदयनम|न्त्र्यादिश्रीसंघेन मुक्ताप्रवालादिस्थालवापितः । धर्मस्थैर्यापादनाय 'इतः समागम्यतां' इत्यादिबहुमानवचनैः श्रीगुरुभिर्दत्त
॥११३।।