________________
मारपाल
११२ ।।
सुरेश्वर श्रेणी संवाह्यमानपादपद्मान, चुलुक्यादीन, निजानेकविंशतिपूर्वजांश्च नानारत्नाभरणभास्वरानन् विश्वातिशायिदेहद्य तिद्योतितदिग्मुखान, श्रीजिनाग्रे योजितपाणीन स्तुतिपरांश्च दृष्टवान् श्रीकुमारपालभूपालः । तत्र तथा भूतानां तेषां दर्शनात्प्रमोदविस्मयाद्वैत क्षीरनीरधौ मग्न इव क्षणं समजनि भूजानिः । ततश्वौलुक्यमादाय, हेमसूरिः सगौरवम् । नमस्कृत्य जिनाधीशान् तेषामग्रे निषेदिवान् ॥ १ ॥ श्रीजिना राजानं प्रोचु:
एकस्त्वमेव भूमीन्द्र !, विवेकच्छेकमानसः । यो मुक्तवानिमं धर्मं, वधकालुष्यदूषितम् ।। १ ।। धर्मः सर्वदयामूल, एव प्रामाण्यमश्नुते । तस्माद्भ्रान्ति परिहृत्य ( त्यज्य), दयाधर्मे स्थिरीभव || २ || अयं गुरुः सर्वदैवतावतारः, एतदुक्तं देवादितत्त्वं समाराधय । पूर्वजा अपि प्राहुः, वयमद्य त्वयैव पुत्रिणः सञ्जाताः, यस्त्वं कापथवर्जनेन जिनधर्मपथं भेजे । अतः परम्जिनो देवो गुरुः साधुर्धर्मः सर्वदयामयः । एतत्तत्त्वं परिज्ञाय, गृहोत्वा च समाचर ॥ १ ॥ इत्यादि निगद्य-गतेषु तेषु सर्वेषु, दोलायितमनः स्थितिः । गुरून् पप्रच्छ राजेन्द्रः शुद्धतत्त्वजिघृक्षया ।। २ ।। अत्रान्तरे सूरिः राजन् ! इन्द्रजालकलावल्गितमेवैतत्, न कश्चित् परमार्थः । देवबोधेः पार्श्वे एकैवैषा मम तु सप्त सन्ति, तच्छक्त्या स्वप्नवदावाभ्यां दशितमेतत् । यदि न प्रत्येषि तदा वंद विश्वमपि समग्रं दर्शयामि ।। परं न किंचिदेवैतत्कूटनाटकपाटवात् । सत्यं तदेव यद्देवः, सोमेशस्त्वां तदादिशत् ॥ १ ॥
अत्रान्तरेऽवसरपाठकः-
आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः ।
********
प्रबन्ध:
।। ११२ ।।