________________
॥१११॥
त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गान्निवृत्तिः । जैनो धर्मो यदि न रुचितः पापपङ्का वृतेभ्यः, सपिर्दष्टं किमिदमियता यत्प्रमेही न भुङ्क्ते ।।१॥ (मन्दा०) लक्ष्मीर्दानविवेकसङ्गममयी श्रद्धामयं मानसं, धर्मः शीलदयामयः सुचरितश्रेणीमयं जीवितम् । बुद्धिः शास्त्रमयी सुधारसमयं वाग्वैभवोजृम्भितं, व्यापारश्च परार्थनिर्मितिमयः पुण्यः परं प्राप्यते ॥२॥ (शार्दू०)
इत्यादिदेशनां सर्वसाधारणां राजादिसभ्यानन्ददायिनी कुर्वतः श्रीसूरेः कश्चित्पूर्वसङ्केतितः शिष्योऽधरासनमाकृषत् । आकृष्टेऽप्यासने निराधार एव तिष्ठन् सूरिराजोऽस्खलितवचनैर्व्याख्यां कुर्वन राजादिभिरेव तर्कितः--
कि सिद्धः ? किमयं बुद्धः ?, किं विरञ्चिः ? किमीश्वरः ?। अन्यथा कथमेताहक, शक्तिरस्य व्यवस्यति ।।१।।
देवबोधेरपि रम्भासनमाधार आसीत्, मौनेन कायवायवः सुजयाः स्युः, परं व्याख्यां कुर्वतोऽस्य स्थितिरतिकौतुककारिणीति लोका-अहो ! महदाश्चर्यं न दृष्टपूर्विणो वयं क्वाऽपि, लोकोत्तरस्थितिरसौ गुरुश्चेत्यादिवदन्तश्च परमानन्दपूरिता आसन् । सूरिः प्रहरं सार्धं देशनां व्यधात् । अथाऽऽसनं सूरोनध्यास्य राजाह
तिरोहिता सर्वकलाः कलावतां, कलाविलासैस्तव सरिशेखर ! ।
तेजस्विनां किं प्रसरन्ति दीप्तयः ?, समन्ततो भास्वति भास्वति स्फुटम् ॥ १॥ सूरयोऽपि मम देवतावसरं पश्य राजन् ! इत्युदीर्य श्रीचौलुक्यमपवरकान्तनिन्युः । तत्र पुराऽपि काञ्चनसिंहासनेषु निविष्टान् । चतुर्मुखान् अष्टमहाप्रातिहार्यादिविराजितान् श्रीनाभेयाद्यान् चतुविशतिजिनेन्द्रान् चतुःषष्टि
XXXXXXXXXXXXXXXXXXXXXXXXX
तिराहिता स
।।१११।।