________________
| १०९ ॥
परिवारश्च । याममात्रदिने राजा स्नात्वा शुचिचीवराने काभरणभ्राजिष्णुर्द्धासप्ततिसामन्त श्री उदयनवाग्भटादिमन्त्रिपरिवृतो देवतागारं देवतावसरकरणाय प्राप्तः । देवबोधिरपि वयमध्यद्य राज्ञो देवपूजाविधि विलोकयिष्याम इत्यादिवादी राज्ञाऽऽकारितस्तत्रागात् । श्रीचौलुक्योऽपि काञ्चनपट्टे शङ्करादिदेवान् पूर्वजकारितान् स्वकारितश्रीशान्तिसौवर्णप्रतिमां च निवेश्य गन्धोदकादिनीरैः स्नात्रं कृत्वा पञ्चोपचाराष्टोपचारादिपूजां निश्चलमनाः करोति स्म । तदवसरे जैनप्रतिमां दृष्ट्वा देवबोधिरवादीत्, राजन् ! अयुक्तं तवैतत्पूजनादि । यतः -
अवेदस्मृतिमूलत्वाज्जिनधर्मो न सत्तमः । अत एव न तत्त्वज्ञः, सूरिभिः सोऽयमिष्यते ।। १ ।। न युक्तं मर्यादामेरूणां स्वाङ्गीकृतनिर्वाहक्षमभुजशालिनां न्यायमुद्रातिक्रमरूपं स्वकुलाचारपरिहरणम् । यतः"नोल्लङ्घनीयाः कुलदेशधर्माः ।" तथा-
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १ ॥
तदनु राजोवाच, हे देवबोधे ! श्रौतो धर्मो महानपि हिंसाकलुषितत्वेनाऽसर्वज्ञप्रणीतत्वेन च मम मनसि न प्रतिभाति । जैनस्तु सर्वजीवदयासंवादसुन्दरत्वेन भृशं स्वदते । पुनर्देवबोधिः, श्रीकुमारभूप ! यदि न प्रत्येषि तदा महेश्वरादिदेवान् स्वपूर्वजांच प्रत्यक्षमूर्तिमतोऽत्रागतान् स्वमुखेन पृच्छ, इति निगद्य मन्त्रशक्त्या तानाकृष्टवान् । ततः -- ब्रह्मविष्णुहरान् मूलराजादीन् पूर्वजानापि दृष्ट्वा पुरः स्फुरद्रूपान्, राजाऽऽश्र्चर्यमयोऽनमत् ।। १ ।। ततस्ते त्रयोऽपि देवा
।। १०९ ।।