________________
तदनु देवबोधिः प्रत्यक्षभारतीको महेन्द्रजालादिविद्याचूडामणिमन्त्रादिशावरतीतानागतादिज्ञाता, सुसाधितपूरक-रेकुमारपालचककुम्भकवायुसंचारचतुरः, इडापिङ्गलासुषम्णागान्धारीहस्तिनीप्रभृतिदशमहानाडिवातसन्ततसञ्चारणचणः, चतुरशीत्या- प्रबन्धः ।
सनकरणप्रवणः, कायगतषट्चक्रषोडशाऽधारपञ्चव्योमत्रिशून्यत्रिलक्षादिवेत्ता, आमतन्तुसूत्रबद्धकमलनालयुक्तकदलीपत्र॥१०८॥
सुखासनाधिरोही, आद्विजमातङ्गप्रार्थकगृहेषु यथाहरूपकरणेन भोजनविधाता, श्रीजिनधर्मानुरक्तं नृपं ज्ञात्वा सर्वद्वि
राकारितः श्रीपत्तनपरिसरे समायातः । इन्द्रजालचूडामण्यादिकलाभिः समग्रराजलोकनागरान् रञ्जयन सदा सर्वेषांक सेव्योऽभूत् । यतः--
निष्कलोऽपि व्रती मान्यः, कलावांस्तु विशेषतः । स्वभावतः प्रियं हेम, किं वाच्यं रत्नरोचितम् ? ॥ १ ॥
गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयमायान्ति षट्पदाः ।। २ ।। श्रीचौलुक्यनपेण सामन्तलोकेभ्यो ज्ञातदेवबोध्यागमकलाकौशलेन मनसि चमत्कृतेन द्रष्टमुत्सुकेन महता महेनाकारितः ।। __ नलिनीनालसद्दण्डं, रम्भापत्रमयासनम् । आमतन्तुभिराबद्ध, बाष्पच्छेद्य रिवाणुभिः ।। १ ॥ शिशूनामष्टवर्षाणां, - स्कन्धन्यस्तं सुखासनम । आरुह्य पर्षदं राज्ञो, देवबोधिः समासदत् ।। २ ।। युग्मम् ॥
राज्ञाऽप्यभ्युत्थानादि कृत्वा क्वाऽयं पिचण्डिलः ? क्वेदं कदलीपत्रासनादि ? इति विस्मितेन नमस्कृतः सुवर्णासने निवेशितश्च । सोऽपि--शङ्करः शङ्करो ब्रह्मा, ब्रह्मानन्दप्रदायकः । तुभ्यं भूयाद्रमास्वामी, रमास्वामित्वदो नृप !॥ १ ॥ - इत्याशीर्वादं दत्त्वाऽऽसनमलङ्कृतवान् । तदनु तत्तदुचिताद्भुतकलाविज्ञानांपूर्वप्रबन्धादिवार्तादिभिविस्मेरितो राजा