SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्म राज्ञा ॥ ।१०७॥ ततः सोमेश्वरी वाणी, स्मरन् सञ्जातप्रत्ययः । सूरिपदाम्बुजं भक्त्या, भजति स्म स हंसवत् ॥ १॥ कदाचिद्वसतिं गत्वा, सदस्याकार्य कर्हिचित् । शुद्धधर्मरहस्यानि, शृणोति स्म निरन्तरम् ।। २॥ __ शनैः शनैमिथ्यात्वपराङ्मुखो द्विजवर्गे निरादरो नवश्रावकत्वं दधौ । तदनु पुरोधोराजगुर्वादिविप्रैः श्रीहेमाचार्यमहि-त्र मानमसहिष्णुभिर्देवबोधिराचार्यः समाकार्यत । अथ कोऽयं देवबोधिः? कथमागतः ? किं कृतं तेन ? इत्युच्यते-- भृगुक्षेत्रनिवासी देवबोधिः संन्यासी क्वाऽपि पर्वणि गङ्गायां स्नानार्थं गतः । तत्र पुराऽपि स्वर्णसिद्धिसिद्धसारस्वतमन्त्री लोकेभ्यः स्वायुरन्तं ज्ञात्वा सुवर्णं ददानो दीपकाचार्यः समागतोऽस्ति । तं विनयेन सम्यक् संतोष्य सारस्वतमन्त्रं जग्राह । न्य EX ततः पश्चादागत्य नर्मदाजले आकण्ठं स्थित्वा मन्त्रं जजाप षड्लक्षमितं, तथाऽपि भारती नागात् । रुष्टोऽक्षमाला नभ स्यक्षप्सीत् । सा च मन्त्रमाहात्म्यान्निरालम्बा व्योम्नि स्थिता। तां तथा दृष्ट्वा विस्मितो देवबोधिः किंचिद्यावचिन्तयति तावद्वयोमवाणी प्राह, किं ध्यायसि महामते ! पश्चाद्विलोकयेति । ततः पृष्ठे षट् श्यामवक्त्रचीवरा बीभत्साः स्त्रीदृष्टवान् । आकाशवाण्या प्रोचे, हे देवबोधे ! भवता भवान्तरे कृताः षडिमा जीवहत्या एकैकलक्षजापेन तवात्मनः पृथग्भूताः । एतासु सतीषु सप्रत्ययोऽपि मन्त्रः किं कुर्यात् ? अतः परं मया स्तम्भीतामक्षमालामादाय लक्षमेकं मन्त्रस्य जपतः शारदा प्रत्यक्षा भाविनी इति व्योमवाचोत्साहितस्तथा कृतवान् । भारती मन्त्राकृष्टा शीघ्रमेवागता स्तुता दण्डकस्तोत्रेण । “ऐं जय ऐं जय" इत्यादिनाऽष्टभिरेवाक्षरैर्वरं वृणु इत्यादिशन्ती "भुक्तिमुक्तिसरस्वती" इत्यष्टवणस्तोषिता यथेप्सितवरं ददौ । ॥१०७॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy