________________
कुमारपाल
। १०६ ।।
KXX
निद्रा मोहमयी जगाम विलयं सद्दृष्टिरुन्मीलिता, नष्टा दुष्टकषाय कौशिकगणा माया यो यामिनी । पूर्वाद्रिप्रतिमे विवेकिहृदये सज्ज्ञानसूर्योदयात्कल्याणाम्बुजकोटयो विकसिता जातं प्रभातं च मे || १ | |
अतः परश्व-
( शा० ) अलं कलङ्काकुलितैः कुदैवतै- रलं च तैर्मे कुगुरुप्रलम्भनैः । अलं कुधर्मैरपि जीवहिंसक - रलं कुतर्काकुलकाहलागमैः ॥ २ ॥ सूरयोऽपि, हे श्रीकुमारभूमीन्द्र ! न युक्ता लोकहेरिः सहस्राक्षाणां विवेकिनां विचारवाचस्पतीनाम् ॥ यतः
लक्रमेण कुर्वन्ति, मूढा धर्मं कुबुद्धयः । विपश्चितो विनिश्चित्य, स्वचित्ते च परीक्षया ॥ १ ॥ हठो हठे यद्वदभिप्लुतः स्यान्नौर्नाविबद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो लोकः प्रमादाम्भसि बम्भ्रमीति ।। २ ।। यावत्परप्रत्ययमाबुद्धिविवर्तते तावदपायमध्ये । मनः स्वमर्थेषु विघट्टनीयं, न ह्याप्तवादा नभसः पतन्ति || ३ || आगमेन च युक्त्या च, योऽर्थः समधिगम्यते । परीक्ष्य हेमवद्ग्राह्यः, पक्षपातग्रहेण किम् ॥ ४ ॥ श्रोतव्ये च कृतौ कर्णौ, वाग् बुद्धिश्व विचारणे । यः श्रुतं न विचारत, स कार्यं विन्दते कथम् ? ।। ५ ।।
नेत्रैर्निरीक्ष्य विषकण्टकसर्षकीटान्, सम्यक् पथा व्रजति तान् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुदृष्टि कुमार्गदोषान्, सम्यग् विचारयत कोऽत्र परापवादः ? ॥ ६ ॥
इत्यादि प्राहुः ।। तदनु श्रीचौलुक्यः सर्वदर्शनराजगुरुपुरोधः प्रभृतिद्विजसमक्षं सौवर्णी श्रीशान्तिप्रतिमां कारयित्वा देवतागृहे स्थापितवान्, पूजापरश्वाभूत् । परमीश्वरादयोऽपि कुलक्रमायातत्वेन शुद्धदेवत्वेन जिनेन्द्रोऽपि च सततं पूज्य
प्रबन्धः ।
।। १०६ ।।