________________
१०५॥
ऋद्धया च किं तया या हि, स्वदेशे नैव भुज्यते । ध्यात्वेति रत्नान्यादाय, स्वस्थानं प्रति तेऽचलन् । १८ ।। तुरीयोऽपि गरीयोऽयःपोट्टिलं खस्वत्स्वयम् । समुत्पाटय समं सर्वैस्तैश्चचाल जडाशयः ।। १९ ।। क्रमेण सर्वे संप्रापुः, स्वस्थानं क्षेमयोगतः । त्रयाणां तु धनं रत्नोद्भवरापूरि मन्दिरम् ॥ २० ॥ महेभ्यकुलकन्यास्ते, परिणीय महोत्सवैः । देवा इव सुखोलासाल्लोकपूज्याश्च जज्ञिरे ॥२१ ।। अन्यस्तु स्वल्पमूल्येन, लोहं विक्रीय तद्रुतम् । उद्धारकधनं दत्त्वा, लोकेभ्यश्छुटितः परम् ।। २२ ।। गृहाद्यभावादेकाकी, रङ्कवत्स परिभ्रमन् । अप्राप्तभोजनः खेदमेदुरः समजायत ॥ २६ ॥ ऋद्धि तदीयां लीलां च, संपश्यंश्च पदे पदे । विग् मां कदाग्रहग्रस्तमित्यात्मानं निनिन्द सः ॥ २४ ॥ याञ्चापरः स तैमित्रः, कृपया दत्तभोजनः । आजन्मदुःखितां प्राप, पश्चात्तापपरायणः ॥ २५ ।।
इत्थं लोहसमं विचारविकलो मिथ्यात्वपक्षग्रहं, प्राणी नो विजहाति यः स लभते दुःखान्यनेकान्यहो ! । ज्ञात्वैवं निपुणं विचार्य हृदये निस्सीमसौख्येच्छया, सद्रत्नोपमितं सदा भजत भोः सद्दर्शनं सजनाः ! ।। २६ ।।
इत्येवंरूपदृष्टान्तपरमार्थं ज्ञात्वा चमत्कृताः श्रीचौलुक्यः सभासदश्च । सर्वे प्रमुदिताः सञ्जातदृढश्रीजिनधर्मानुरागा बभूवुः । किमस्माभिरतः परं विधेयम् ? इति तैः पृष्टाः सूरयः प्राहुः, हे राजन् !--
प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां, सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैनिमानैः । जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्च, प्रायः पुण्यकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या ।।१॥ (स्र०)
इति गुरूपदेशं निशम्य राजा प्राह, भगवन् !--
१०५॥