________________
EXI
तद्यथा कोशलापुर्या, चत्वारः सुहृदोऽभवन् । समदुःखसुखाः प्रायः, परं निर्घनवृत्तयः ।। १ ।। अन्योन्यं मन्त्रयित्वा । मारपाल ते, धनोपार्जनकाम्यया देशान्तरं कचित् प्रापुः, सुप्रापाऽयोमहाकरे ॥ २ ॥ वर्षासु बहुमूल्यं स्यालोहमन्यत्र नीवृति । प्रबन्धः ।
इति निश्चित्य ते तत्र, लोहं लात्वा पुरोऽचलन् ॥३॥ अग्रतो गच्छतां तेषामागाद्रूप्याकारो महान् । हृष्टाः परस्परं प्रोचुर्गृह्यते ।। १०४।।
रूप्यमत्र भोः ! ॥४॥ तत्र ते हि त्रयो लोह, विक्रीयासारभारकृत् । दीप्यद्रूप्यं गृहीत्वा च, चतुर्थं मित्रमूचिरे ।। ५ ॥
मित्र ! लोहमिदं दूरात्त्यज दुर्जनसङ्गवत् । गृहाणाऽतनुलाभाय, तारं सज्जनसङ्गवत् ।। ६ । सोऽप्याह यूयं व्यामूढाः, E अनवस्थितचेतसः । यदयोव्यूढमियतीं, भुवं तत्त्यज्यते कथम् ॥ ७ ॥ श्रुत्वेति तद्वचस्तेऽने, संप्राप्ताः कनकाकरे ।
विक्रीय तत्र तद्रूप्यं, सुवर्ण जगृहुस्त्रयः ॥ ८ ॥ कदाग्रहगृहीतस्तु, वादितो बहुयुक्तिभिः । चतुर्थो नामुचल्लोहं, तद्बोहमिव दुर्जनः ॥ ९ ॥ क्रमेणवं गताः सर्वे, भास्वरं रत्नमाकरम् । परस्परं वदन्ति स्म, ते तत्र मुदिताशयाः ।। १० ।। गृह्यन्तां स्वेच्छया रत्नान्यत्र मुक्त्वा च काञ्चनम् । यतो ह्येकमपि प्रायो, रत्नं लाभाय भूयसे ॥१॥ विक्रीय कनकं तेऽपि, खानि खनितुमागताः । तत्र राज्ञो नवांशाः स्युर्दशांशः स्यात्पुनर्नणाम् ॥ १२ ॥ एवं व्यवस्थया खानि, खनित्वा रत्नपञ्चकम् । प्रत्येक प्राप्य ते प्राहूर्मुदिता मित्रमादरात् ।। १३ ।। इदानीमपि रत्नानि, गहाण त्वं सुहृत्तम्! । वनिष्टं नास्ति ते किंचिन्मुश्च मुञ्च कदाग्रहम् ॥ १४॥ इत्यादिवादितोऽप्येष, दुरात्मा प्रतिवक्ति च । ययं भोः ! मिलिता धूलेश्चलाचलविचेतसः ॥ १५ ।। एवं नवनवं लात्वा, युष्माभिस्तरलीकृतः । आश्रितो द्वेषिभिः स्वात्मा, वातान्दोलिततूलवत् ।। १६ ।। तस्यैतद्वचनं श्रुत्वा, निर्विचारशिरोमणेः । मूढोऽयमिति निश्चित्य, स्थितास्तूष्णीं त्रयोऽपि ते ॥ १७ ॥
॥१०४।।