________________
॥१०३॥
'वधो धर्मो जलं तीर्थं, गौर्नमस्या गुरुर्गृही । अग्निर्देवो द्विकः पात्रं येषां तैः कोऽस्तु संस्तवः ।। १ ।।
।। इति गुरुतत्त्वम् ॥
धम्मं जणोवि मग्गइ, मग्गंतोवि अ न जाणइ विसेसं । धम्मो जिणेहिं भणिओ, जत्थ दया सव्वजीवेसु ।। १ ।। तिन्निसया तेसट्ठा, दंसणभेया परुप्परविरुद्धा । न य दूसंति अहिंसं, तं गिण्हह जत्थ सा सयला ।। २ ।। धम्मो धुम्मत्ति जगंमि घोसए बहुहेहिं रूवेहिं । सो भे परिक्खियव्वो, कणगंव तिहिं परिक्खाहिं ॥ ३ ॥ लठ्ठेति सुंदरंति अ, सव्व घोसेइ अप्पणो पणियं । कइएण य घित्तव्वं, सुंदरसुपरिक्खियं काउं ॥ ४ ॥ यथा चतुभिः कनकं परीक्ष्यते, निर्धर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ ५ ॥
॥ इति धर्मतत्वम् ॥
इत्थं सम्यग्विज्ञातशुद्धदेवादितत्त्वोऽपि श्रीकुमारपालनृपः कुलक्रमायातत्वाल्लोकलज्जादिना मिथ्यात्वं मोक्तुं न समीहते । यतः -
कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ।। १ ।। अथैकदा श्रीमाचार्या दृष्टान्तप्रकटनेन कदाग्रहदुष्टतामाहुः-
सम्यग्गुरूक्तमवगम्य दुरन्तमोहा-न्मिथ्याकदा ग्रहमिहोज्झति नो पुमान् यः । सोऽनन्ततापकलितः किल लोहभार - वाहीव हीनपदयुग् विपदां पदं स्यात् ।। १ ।।
*******
।। १०३।