________________
कुमारपाल
।। १०२ ।।
*****
" गृणाति तत्त्वमिति गुरुः " न तु नाममात्रेण कुलक्रमायातः कस्यापि गुरुरस्ति । सर्वेषां प्राणिनामनादिकालमे केन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां तत्र भवे यस्य कस्यापि प्राणिनोऽज्ञानान्धकारावृतस्य यस्तत्त्वातत्त्वव्यक्ति दर्शयति तस्य स एव गुणगौरवार्हो गुरुः, नापरे स्वार्थनिष्ठाः सगृहा गुरवः । यदुक्तम्—
दुष्प्रज्ञाबललुप्त वस्तुनिचया विज्ञानशून्याशयाः, विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थेकनिष्ठा नराः । आनन्दामृतसिन्धुसीकरचर्यैर्निर्वाप्य जन्मज्वरं, ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिद्बुधाः ।। १ ।। वाङ्मात्रसाराः परमार्थशून्याः, न दुर्लभाश्चित्रकथामनुष्याः । ते दुर्लभा ये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति ॥२॥ मुग्धश्च लोकोऽपि हि यत्र मार्गे, निवेशितस्तत्र रतिं करोति । धूर्तस्य वाक्यैः परिमोहितानां, चित्तं न केषां भ्रमतीह लोके ? || ३ || किंबहुना
अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। १ ।। तथा-जीवोऽयं विमलस्वभावसुभगः सूर्योपलस्पर्द्ध या धत्ते सङ्गवशादनेकविकृती लुप्तात्मरूपस्थितिः ।
यद्याप्नोति रवेरिवेह सुगुरोः सत्पादसेवाश्रयं, तञ्जातोजिततेजसैव कुरुते कर्मेन्धन भस्मसात् ॥ १ ॥ तथा-महाव्रतधरा धीराः भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ १ ॥ एवंविधा एव सेव्या नापरे । यथा-
प्रबन्धः ।
।। १०२ ।।