SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०१॥ राजन् ! बहुनोक्तेन किम् । य एव सांसारिकभावविपरीतवृत्तिः स एव देवा, नान्यः । यदुक्तम्-- यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव देवलक्षणम् ॥ १ ।। क्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मदुधियां, वीतरागः कथञ्चन ।। २ ॥ श्रीचौलुक्यराज! एवं विधेवंनिर्दोषेऽपि थीजिनेन्द्रदेवे यत्परप्रवादा मत्सरिणः स्युः, तत्स्वशासनानुरागेण परशासनाभिभवाभिमानस्य विजृम्भितम् । यदाह श्रीसिद्धसेनदिवाकरःहितयुक्तमनोरथोऽपि संस्त्वयि न प्रीतिमुपैति यत्पुमान् । अतिभूमिविदाददारुणं, तदिदं मानकलेविजृम्भितम् ॥१॥ इति वीतरागः सर्वज्ञो देवः ।। ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनास्ति चेत ॥ १ ॥ ये स्त्रीशस्त्राक्षसत्रादिरागाद्यकलङ्किता । निग्रहानग्रहपरास्ते देवाः स्यून मुक्तये ॥२॥ इति देवतत्वम त्यक्तदाराः सदाचाराः, मुक्तभोगा जितेन्द्रियाः । जायन्ते गुरवा लोके, सर्वभूताऽभयप्रदाः ॥ १॥ स्नानोपभोगरहितः, पूजालङ्कारवजितः । मद्यमांसनिवृत्तश्च, गुणवान् गुरुरुच्यते ॥ २ ॥ अथवा-- - धर्मको धर्मकर्ता च, धर्ममार्गप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।। १ ।। अवद्यमुक्ते पथि यःप्रवर्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः । स एव सेव्यः स्वहितैषिणा गुरु, स्वयं तरंस्तारयितुं क्षमः परम् ।।२।। . विदलयति कुबोधं बोधयाँत्यागमार्थ, सुगतिकुगतिमागौं पुण्यपाये व्यनक्ति । . अवगमयति कृत्याकृत्यभेदं गुरुयों, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ।। ३ ।। व ॥१०१
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy