SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥१००॥ तं वन्दे साधुवन्द्य ं सकलगुणनिधि ध्वस्तदोषद्विषं तं बुद्ध ं वा वर्द्ध मानं शतदलनिलयं केशवं वा शिवं वा ।।१।। राजन् ! सर्वज्ञत्वमपि सकलदोषरहितत्वेनैव साध्यम् । दोषाश्वाष्टादश सामान्यतः । तद्यथा-अन्ना १ कोह २ मय ३ मा ण ४ लोह ५ माया ६ रई अ ७ अरई अ ८ । निद्दा ९ सोअ १० अलियवय-ण ११ चोरिआ १२ मच्छर १३ भयाई १४ ॥ १ ॥ पाणिवह १५ पेम १६ कीडा १७, पसंगहासा य १८ जस्स इइ दोसा । अट्ठारसवि पणट्ठा, नमामि देवाहिदेवं तं ॥ २॥ तथारागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु, मानः परपराभवे ।। १ ।। लोभः पदार्थ संप्राप्तौ माया च परवचने । गते मृते तथा शोको, हर्षवागतजातयोः ।। २ ।। अरतिर्विषयग्रामे चाशुभे च शुभे रतिः । चौरादिभ्यो भयं चैव कुत्सा कुत्सितवस्तुषु ।। ३ ।। वेदोदयश्च संभोगे, विलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्यामृतमुज्जृम्मते तदा ।। ४ ।। एवं सति-मुध्वं पक्षपातं भवत गुणवति स्नेहला मा स्वशास्त्रेष्वेवाश्वासं दधीध्वं विमृशत विशदीकृत्य चेतः क्षणार्द्ध म् । ज्ञातं वस्तावदार्याः शमदमसमतासूनृताद्यागुणालीकाङ्क्षा कन्दर्पदर्पानृतकलिकपटान्येष दोषप्रपञ्चः ॥ १ ॥ अमी गुणाश्च दोषाश्च, कं सामस्त्येन भेजिरे । जिनं तदितरं वापि स्वयमेव विचिन्त्यताम् ।। २ ।। प्रत्यक्षतो न भगवान् ऋषभो न विष्णु -रालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसंप्रभावा-ज्ज्ञात्वा विचारयत कोऽत्र परापवादः ।। ३ ।। प्रबन्धः । 1120011
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy