SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ||९ किञ्च-यज्ञार्थ पशवः सृष्टाः, यदीति वदति स्मृतिः । तन्मांसमश्नतः स्मार्ताः, वारयन्ति न कि नपान? ॥१॥ यदि यज्ञार्थं पशवो ब्रह्मणा सृष्टास्तहि व्याघ्रादिभिर्देवाः किं न तृप्यन्ते ? ।। अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् ? । न तोयजानि पद्मानि, जायन्ते जातवेदसः ।। १।। तथा च धर्मसमुद्देशे-- आत्मवत्सर्वजीवेषु, कुशलवत्तिचिन्तनम् । धर्मस्याधिगमोपायः, शक्तितस्त्यागतोऽप्ययम् ।। १ ।। इति ।। " श्रीभोजराजाग्ने धनपालवाक्यम्--- नाहं स्वर्गफलोपभोगतषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो! न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहिता यज्ञे ध्रुवं प्राणिनो, यज्ञं कि न करोषि मातृ पितृभिः पुत्रस्तथा बान्धवैः ? ||१।। इत्यादि श्रीहेमसरिवाक्यामृतसिक्तहृदयः श्रीचौलुक्यो वेदोक्तमार्गस्याप्रमाणत्वममन्यत । इत्थं राजसभायां विविधेषु विचारेपु जायमानेषु राजा श्रीजिनधर्म सत्यतया मन्यमानः सर्वदर्शनसमक्षं सर्वसंवादेन देवगुरुधर्मस्वरूपं पप्रच्छ । तत्र सर्वेऽपि दर्शनिनो यथाज्ञातस्वस्वागमाचारविचारं देवादिस्वरूपं प्राहुः । तत्र देवतत्त्वे नाटयाट्टहाससङ्गीतरागद्वेषप्रसादजगत्सृष्टिसंहारपालनशस्त्रस्त्रीपरिग्रहादिसमग्र सांसारिकजन्तुजातसाधारणगुणे निरूप्यमाणे राज्ञा पृष्टा हेमाचार्या ऊचुः, श्रीचौलुक्यराज! शृण ।। सर्वज्ञो जितरागादिदोपत्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन परमेश्वरः ।।१॥ सर्वज्ञस्यैव देवत्वं, नापरस्य । यतः यो विश्वं वेद वेद्य जननजलनिधेर्भनिनः पारदृश्वा, पौर्वापर्याऽविरुद्ध वचनमनुपमं निष्कलङ्क यदीयम् । -- -- ९९।। .......tatatatatest -
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy