SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल ॥९८॥ श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनराहतः । वैदिको व्यवहर्तव्यो, ध्यातव्यः परमः शिवः ॥१॥ इत्यादि सूरिवचांसि श्रुत्वा द्विजास्तूष्णीं स्थिताः। चमत्कृतश्चित्ते श्रीचौलुक्यः । प्रवर्तितं मनो दयायाम् । अथ भगवन् ! यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा। यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥ १ ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युच्छिति पुनः ।। २ ॥ इत्यादिवदन्तो द्विजा वेदोक्तहिंसाया धर्मसाधनत्वं प्राहुः, तत्कथम् ? सूरिः, राजन् ! नैतत्सत्यम् । यतः स्कन्दपुराणेऽष्टपञ्चाशदध्याये अग्नीषोमीयमिति या, पश्वालम्भनकारिका । सा न प्रमाणं ज्ञातृणां, भ्रामका सा सतामिह ॥ १।। वृक्षांश्छित्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि, चित्रं स्वर्गोऽभिलष्यते ।। २ ।। तथा श्रीभागवतपुराणे त्रयोविंशत्यध्याये शुकःये त्विह वै दाम्भिका दाम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो यातयित्वा विशसन्ति, इत्यादि । मीमांसायाम्___अन्धे तमसि मज्जामः, पशुभिये यजामहे । हिंसा नाम भवेद्धर्मः, न भूतो न भविष्यति ॥१॥ श्री भागवतपुराणे एकादशाध्याये ब्राह्मण उवाच- .. .. तथवराजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धोऽनुचकास्ति साधुः ।।१।। ॥९८॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy