________________
प्रबन्धः ।
कुमारपाल
॥९८॥
श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनराहतः । वैदिको व्यवहर्तव्यो, ध्यातव्यः परमः शिवः ॥१॥ इत्यादि सूरिवचांसि श्रुत्वा द्विजास्तूष्णीं स्थिताः। चमत्कृतश्चित्ते श्रीचौलुक्यः । प्रवर्तितं मनो दयायाम् । अथ भगवन् !
यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा। यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥ १ ॥
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युच्छिति पुनः ।। २ ॥ इत्यादिवदन्तो द्विजा वेदोक्तहिंसाया धर्मसाधनत्वं प्राहुः, तत्कथम् ? सूरिः, राजन् ! नैतत्सत्यम् । यतः स्कन्दपुराणेऽष्टपञ्चाशदध्याये
अग्नीषोमीयमिति या, पश्वालम्भनकारिका । सा न प्रमाणं ज्ञातृणां, भ्रामका सा सतामिह ॥ १।। वृक्षांश्छित्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि, चित्रं स्वर्गोऽभिलष्यते ।। २ ।।
तथा श्रीभागवतपुराणे त्रयोविंशत्यध्याये शुकःये त्विह वै दाम्भिका दाम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो यातयित्वा विशसन्ति, इत्यादि । मीमांसायाम्___अन्धे तमसि मज्जामः, पशुभिये यजामहे । हिंसा नाम भवेद्धर्मः, न भूतो न भविष्यति ॥१॥
श्री भागवतपुराणे एकादशाध्याये ब्राह्मण उवाच- .. .. तथवराजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धोऽनुचकास्ति साधुः ।।१।।
॥९८॥