________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः | परिच्छेदः
अजापुत्रक| थान्तर्गता हरिषेणश्रीषेणकथा।
मयि प्रत्ययितो लोको, दत्ते यदुपयोचितम् । ग्राह्य सर्व युवाभ्यां तत् , कार्यों भोगः सदा मम ॥ २२ ॥ शिक्षयिरवेति तौ यक्षोऽथाध्यष्ठाद्वालुकोत्करम् । यथा तथापि लोकेऽस्मिन् , प्रकाश्यो गुणिभिगुणः ॥ २३ ॥ हरिषेणश्रीषेणाभ्यां ततो लोकस्य पश्यतः । स्नपितोऽप्यम्बुनाऽत्यर्थ, नापतद्वालुकोत्करः ।। २४ ॥ तदाश्चय समीक्ष्याथ, पूर्लोकः कौतुकात्ततः । घर्षयन् स्नपयत्येनं, पयस्कुम्भशतैः स्वयम् ॥ २५ ॥ वालुकोत्करतस्तस्माचलत्येकोऽपि नो कणः। महाप्रभावोऽयमिति, ख्यातोऽभूत् सकले पुरे ॥ २६ ॥ केन केनापि दुःखेन, पीडितः पूर्जनस्ततः । उपयाचितान्याचष्ट, यक्षः पूरयति क्षणात् ॥ २७॥ पूरितप्रत्ययो लोको, यवं प्रत्यतिभाववान् । अकारयद्देवगृहं, तद्वालुकोत्करोपरि ॥२८॥ कामितार्थप्राप्तिप्रीतो, दत्ते यत्किञ्चनापि यः । हरिषेणश्रीषेणौ तद्गृहीतस्तस्य सेवकौ ॥ २६ ॥ पृथक् पृथग नृणामग्रे, तो तत्प्रभावमृचतुः। प्रसादाजीव्यते यस्य, स ख्याप्यो हि विपश्चिता ॥ ३०॥ जनश्रुत्या ततो, ज्ञात्वा, यक्षं सातिशयं तु तम् । दुर्गवाहुनु पस्तत्र, यक्षौकसि समागमत् ॥ ३१॥ काश्मीराम्भोभिरत्यर्थ, स्नपयामास तं नृपः। न तैरभेदि स वापि, जिनवाक्यैरभव्यवत् ॥ ३२॥ साश्चर्यो नृपतिर्वालुकोत्करस्य पुरःस्थितः । कृत्वाञ्जलिमुवाचैवं, समक्षं सर्वसंसदः ॥ ३३॥ यदि कोऽपि प्रभावोऽस्ति, भवतस्तत्सुतस्य मे। दृढबाहोगतस्यारिदेशे शुद्धिं समानय ॥ ३४ ॥ इति नृपोदिते यक्षो, वालुकोत्करधारणे । विधाय यत्नं कमपि, नृपपुत्रान्तिकं ययौ ॥३५॥
॥११॥
॥
१॥