________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः |परिच्छेदः
अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा।
शुद्धिस्ते ननु नायाति, दवीयस्त्वाच्चिरेण तत् । श्रीदुर्गबाहुना राज्ञा, महादुःखमुपेयुषा ॥ ३६॥ अभ्यर्थितस्त्वच्छद्धयर्थ, यक्षोऽहं श्रीपुरादिह । समागां नभसा शीघ्र', दृढबाहो ! नृपोह ! ॥ ३७॥ युग्मम् ॥ ततः स्वशुद्धिलेखं त्वं, साभिज्ञानं समर्पय । इति नभःस्थयक्षोक्ते, दृढबाहुस्तथाऽकरोत् ॥ ३८ ॥ अभिज्ञानास्त्रिकायुक्तं, लेखमानीय तत्क्षणात् । तथैवोद्ध्वस्थराज्ञोऽस्य, हस्ते यचस्तमक्षिपत् ॥ ३१ ॥ राजा पुत्रास्त्रिकां दृष्ट्वा, हर्षबाष्पजलोम्मिभाग् । स्वयमुद्ग्रथ्य तं लेख, सगद्गदमवाचयत् ॥ ४० ॥ स्वस्ति श्रीपुरपत्तने स्वपितरं नत्व शलं, दुर्गान्तःस्थकलिङ्गराजमधुना व्यापाद्य सद्यस्ततः। पूज्यप्रेषितदेवतार्पितभवच्छुद्धिप्रमोदोत्सुकः प्रत्येष्यामि तदत्र निश्चयपराऽभिज्ञानमेषाऽस्त्रिका ॥४१॥ तच्छुद्धयानयनात्प्रीतो, राजा सान्तःपुरस्ततः । विलिप्य पूजयित्वा च, ननाम वालुकोत्करम् ॥ ४२ ॥ अमात्यमादिशच्चाथ, यद्वालुकोत्करोपरि । महद्यक्षगृहं काष्ठमयं कारय सत्वरम् ।। ४३ ॥ एषोऽहं कारयामीति, विज्ञप्ते तेन मन्त्रिणा । नत्वा तं नृपतिर्धाम, जगाम मुदितस्ततः॥४४॥ मन्त्री च कारयामास, काष्ठप्रासादमुच्चकैः। निखन्य स्तम्भानद्यन्तरचाल्यान पूरपाथसा ॥ ४५ ॥ यक्षवेश्मनि निष्पन्ने, चक्र प्रेक्षणकस्थितिम् । नृपः प्रणम्य तं भुङ्क्तेऽन्येऽप्येवं बहवो जनाः ॥ ४६ ।। हरिषेणश्रीषेणौ च, यक्षस्यासन्नसेवको। सक्रियते च लोकेन, ताहक सेवा न निष्फला ॥४७॥ वर्षाकाले नदीपूरे, समायातेऽपि नैव च । पाथसा हियते तस्य, यक्षस्य काष्ठवेश्म तत् ॥४८॥
॥१२॥
K
॥१२॥