________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेदः
चरित्रम्
पूरेऽपि तत्तथाभूतं, दृष्ट्वा । लोको विसिष्मिये । तदेकदेवतीभूय, तस्य भोगमकारयत् ॥ ४६॥ अथ दीपोत्सवे प्राप्ते, पुंसा केनापि यक्षराट् । पात्रेऽवतारितो रात्री, प्रष्ट किञ्चिनिजौकसि ॥५०॥ तदेव दैवतो नद्या, महत्पूरं समागमत् । यक्षशून्यं नदीपूरेणाकृष्टं काष्ठवेश्म तत् ।। ५१ ॥ अन्तःसुप्तहरिषेणश्रीषेणं दीपमण्डितम् । स्रोतसा नीयमानं च, समुद्रान्तस्तदाऽपतत् ।। ५२ ॥ सरित्पतिपयस्यस्मिस्तरति यक्षवेश्मनि । समुद्रगर्जितध्वानर्जजागारानुजस्ततः ॥ ५३ । श्रीषेणस्तत उत्थाय, वेश्मनोऽस्मादगादहिः । अपश्यच्च ससम्भ्रान्तो, जलाद्वैतं हि सर्वतः ॥ ५४॥ कुर्वाणः किं महावृष्टिं पाथोदें: पूरिता मही १ । अकालोच्छङ्खलोदन्वन्नीर किं प्लावितं जगत १॥ ५५॥ अहहा!! नगरी सैषा, ममात्र दृश्यतेऽपि न । स यक्षाराधको भूपो, मृत्युमाप्तो भविष्यति ।। ५६ ॥ धिग धिग यक्षमिमं येन, रक्षता मन्दिरं निजम् । यः स्वात्माराधको भृपो, पूर्लोको रक्षितोऽपि न ॥ ५७॥ इति चिन्तयति भ्रान्ते, श्रीषेणे भयमीयुषि । भूमाविव चलनप्सु पुमानेकः समाययौ ॥ ५८॥ अस्माकं यक्षतोऽप्येष, सप्रभावः पुमानहो ! । चलत्यम्भसि यः पयां, ध्यात्वेत्यूचे स तं नरम् ॥ ५६ ॥ अहो ! कस्त्वं ? महाभाग !, शक्तियेस्येयमीदृशी । समीहसे व वा गन्तुं ?, त्वरा यस्येयमीदृशी ॥६॥ अथ श्रीषेणमृचे स, भूरिश्वासभृताननः । नालंभूष्णुरहं तुभ्यमिदानी दातुमुत्तरम् ॥ ६१॥ तथापि किमपि ब्रहीत्युक्तः श्रीषेणमाह सः। रत्नदीपं व्रजन्नस्मि, कार्य यत्तत्र तच्छृणु ॥ ६२॥
अजापुत्रक थान्तर्गता हरिषेणश्रीषेणकथा।
॥
३॥
॥
३॥