SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ बन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेद अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा। है हो!! मल्यौं ! युवा सेवां, विधातुमनसौ यदि । तदाऽहमेव सेव्यो वां, सर्व दातुं क्षमोऽस्मि यत् ॥८॥ अहं हि श्रीफलाभिख्योद्यानाधिष्ठायकस्ततः । अन्यमहर्द्धिकैयक्षस्तस्मानिर्वासितो बलात् ॥६॥ विजेतुमनलम्भूष्णुः, शत्रुनहमिहागमम् । बहूनां हि विपक्षाणां, शूरोऽप्येकः करोतु किम् १ ॥१०॥ मनश्चात्र न मे स्थास्नु, भूरिभोगाभिलाषुकम् । सहायौ तधुवां कृत्वा, यातुमिच्छामि कुत्रचित् ॥ १॥ इति यक्षवचः साक्षानिशम्याथ ससम्भ्रमम् । कृताञ्जली ततो यक्षं, प्रत्येताविदमूचतुः ॥ १२ ॥ सेवको स्वो मनुष्याणामप्यावां द्रव्यलोमतः । किं पुनर्देवयोनेस्ते वाञ्छितार्थविधायिनः ॥१३॥ आवां भृत्यौ भवान् स्वामी, किं न्यूनमियताऽपि नौ ? । अमृतस्य तवावाभ्यां, यद्विधेयं तदादिश॥१४॥ यक्षः प्राह स्वशक्त्याहमधिष्ठाय किमप्यहो!?। तिष्ठामि यत्र तत्रैव, युवाभ्यां स्थेयमादरात् ॥ १५ ॥ प्रतिपन्ने वचस्याम्पा, पुरुपीय यक्षराट् । एताभ्यां सहितो गच्छन् , प्राप श्रीपुरपत्तनम् ।। १६ ॥ ऊचे यक्षस्ततो यद्भो !, अग्रे नास्ति गतिर्मम । बहुभिर्व्यन्तरै रेतत्पुरं व्याप्तं विभागतः॥१७॥ तदेतनगरासन्ननदीपरिसरे क्वचित् । स्थास्यामीति गतस्तत्र, यक्षः पुनरुवाच तौ ॥१८॥ भवन्तौ कुरुतामत्र, वालुकोत्करमुच्चकैः । कल्हारपत्रिकाभिश्च, ततः पूजयताममुम् ॥ १६॥ कृते ताभ्यां तथा यक्षः, शिक्षामित्येतयोरदात् । अहमेनमधिष्ठाय, विधास्ये स्वप्रभावनाम् ॥ २० ॥ अधिष्ठितो मया चायमाहतोप्यम्बुवायुभिः । वालुकोत्करः शैलवन गतो विशरारुताम् ॥ २१ ।। ॥६०॥ ॥8.॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy