SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदा इत्युक्तो मान्त्रिकस्तेन, संहृत्य मण्डलं क्षणात् । बभूव व्यन्तरी दिव्यनैपथ्योद्भटविग्रहा ॥६००॥ ततो वनभुवं प्रोचे, त्वत्सम्यक्त्वं परीक्षितुम् । किलेतत्कृतवत्यस्मि, नीरुक पुत्रोऽस्त्यतः परम् ॥६०१॥ इत्युक्त्वा व्यन्तरी शक्त्या, तिरोभूता ततः क्षणात् । स पूर्णकलसो नीरुक, भूत्वा चिक्रीड पूर्ववत् ॥ ६०२॥ आरामतनयोऽप्येष, पालित्वा विशेषतः । सम्यक्त्वं तत्प्रभावेन, दिवं प्रापायुषः क्षये ॥६०३ ॥ ॥ आरामतनयकथा समाता ॥ ग्रन्थाग्रम् ६१४॥ ॥ अथ हरिषेणश्रोषेणकथा । कथामेनां निशम्यायमजापुत्रो विशेषतः । विवेकाद्गतनिद्रः सन् , पुनः पप्रच्छ सत्कथाम् ॥ १ ॥ वयस्योऽपि जिनेन्द्रोक्तधर्मसंवम्मितां कथाम् । विनयप्रधानां भूयः, प्रारेभे कलया गिरा ॥२॥ अस्तीह भरतक्षेत्रे, विशाला नाम पूर्वरा । विशालविक्रमो नाम, तत्रास्ते पृथिवीपतिः॥३॥ तत्राभूतां हरिषेणश्रीषेणाख्यौ सहोदरौ । क्षत्रियो परमस्नेहादवियुक्तौ परस्परम् ॥ ४ ॥ अथावलगनार्थ तावुभौ देशान्तरं प्रति । चेलतुयेन नैव स्युस्तेजस्विनो निरुद्यमाः॥५॥ गच्छन्तावन्यदा सायं, समीक्ष्य यक्षमन्दिरम् । वासार्थ जग्मतुस्तत्र, कुलायमिव पक्षिणौ ॥ ६॥ क्क गन्तव्यं ? नृपः को वा, योग्यः सेवितुमावयोः । इत्यादि मन्त्रयन्तौ तौ, यक्षोऽन्तःस्थोऽब्रवीदिति ॥ ७ ॥ अजापुत्रक. | थान्तर्गता हरिषेणश्री. षेणकथा। ॥८ ॥ ॥८ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy