SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ . चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्दनकथा। स्वयं तु ध्यानमुद्राभिः, किलावतार्य यक्षिणीम् । खड्गे कुमारिकां प्राह, बाले ! पश्यसि किश्चन १॥ ५८६ ॥ बालाह खड़गे पश्यामि, यक्षिणी भीषणाकृतिम् । मान्त्रिकः प्राह किं ब्रूते ?, यक्षिणी कथय स्फुटम् ॥ ५८७॥ सम्यगाकर्ण्य वालापि, समाख्यदच्चकैरिदम् । यक्षिणीयं वदत्येतद्यत्पूर्णकलसो ह्यसौ ॥ ५८८ ॥ मोचनार्थमशक्येन, अस्तो दोषेण भूयसा । गच्छन् सम्भाव्यते वेश्म, कृतान्तस्येति निश्चयः॥ १८॥ इति श्रुत्वाऽपि चालाया, वाचं प्राणापहारिणीम् । पद्मावती मुमूर्छाऽथ धीरस्त्वारामसूर्जगौ ॥ ५९॥ पृच्छ मान्त्रिक ! दोषोऽयं, निवर्तते कुतोऽप्यहो ! अपप्र(न्वपृ)च्छदसौ देवी, बालया खड्गवासिनीम् ॥ ५६१॥ देवीवाचं ततः श्रुत्वा, बालाह सर्वसाक्षिकम् । चेत्पुरीपद्रयक्षस्य, शापानुग्रहकारिणः ॥ ५१२॥ आरामतनयः स्वेन, पाणिभ्यां कुरुतेऽच्चनम् । तदा निवत्ततेऽवश्यं, रोगोऽस्य मृत्युरन्यथा ॥ ५६३ ॥ युग्मम् ॥ तच्छु त्वाऽऽरामपुत्रोऽथ, सम्यक्त्वकृतनिश्चयः । दध्यौ यद्यस्ति मृत्युर्हि, तत्केनापि न जीवति ॥ ५६४ ॥ अथ जीवितमस्त्यस्य, पूर्वोपार्जितमायतम् । तत्केनापि न मृत्युः स्याद्यक्षेण व्यन्तरेण वा ॥ ५६५॥ अर्थेऽस्मिन् गतसन्देहे, किं यक्षादिभिरचितः । तदर्चा येन सम्यक्त्वक्षणाय भवेन्मम ॥ ५६६ ॥ सुतस्तु म्रियतां वाऽपि, जीवताद्वा स्वकर्मतः । जाता मृताश्च भूयांसः, संसारे वसतां सुताः ॥ ५६७ ॥ भवकोटिभ्रमात्प्राप्ते, मानुषत्वेऽतिदुर्लभे । तत्रापि प्राप्य सम्यक्त्वं, तज्ज्ञः को पयत्यदः ॥ ५९८॥ ऊचे च मान्त्रिकं शीघ्र, त्वं विसर्जय मण्डलम् । नाहं कल्पद्रुमं मुक्त्वा, सेवे धत्तूरकाशिपम् ॥ ५६६ ॥ ॥ ८॥ R८८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy