SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रक थान्तर्गताआरामनन्दः नकथा। इत्याकर्ण्य समुद्भूतभावनासक्तमानसः । स सम्यक्त्वं प्रपद्याथ, गुरून नत्वा ययौ गृहम् ॥ ५७२ ॥ सिद्धसौवर्णपुरुषादङ्गषु कर्त्तितादपि । पुनः पल्लविताद्गृह्णन् स्वर्णमाढयतरोऽभवत् ॥५७३ ॥ अष्टाहिकामहे देवगेहेषु कारयत्यथ । ददाने श्रेयसि द्रव्यमारामतनये ततः ॥ ५७४ ॥ स्फुटदृष्टमहास्वप्नसूचितं तनयं सती । पद्मावती सहानन्दपूरेणासूत सप्रभम् । ५७५ ।। युग्मम् ॥ उत्सवं कारयामास, गायन्नृत्यद्वधूजनम् । मङ्गलध्वनिसानन्दं, समागच्छत् सुमातकम् ॥ ५७६ ॥ पष्टिका जागरित्वाऽथ, सङ्गीतालादमेदुराम् । दशाहे परिपुणे च, हृष्यद्वान्धवबन्धुरे ॥ ५७७ ॥ अस्माकं दुःखमुच्छेद्य, पूरयित्वा मनोरथान् । जातोऽयमिति पुत्रस्य, पूर्णात् कलश इत्यथ ॥५७८ ॥ पितरौ नाम चक्राते, श्लाषितौ सुतजन्मना । ततः सोऽपि क्रमाल्लाल्यमानःप्रापाऽथ यौवनम् ॥ ५७६ ॥ समानगुणरूपाभिरिभ्यपुत्रीभिरुत्सवात् । पितृभ्यां पूर्णकलसः, सन्तोषात पर्यणाय्यत ॥ ५८० ॥ आरामतनयस्याथ, सम्यक्त्वस्थयमीक्षितुम् । आसन्नव्यन्तरी क्वापि, चकारेत्यसमञ्जसम् ॥ ५८१॥ पाणिग्रहणानुपदं, पुत्रस्यागान्महाज्वरः । तद्वशादाहदीर्घार्तिस्तं प्रचक्रेऽतिदुस्सहम् ।। ५८२॥ सोऽचैतन्यादसम्बद्धं, प्रलपति लुठन् भुवि । न वैद्यन न यक्षैश्च, बभूवास्य ज्वरक्षयः॥ ५८३॥ ततश्चागात्कुतोऽप्येको, मान्त्रिकः स्फुटडम्बरः । ज्ञात्वा तं वनसूराह्वचिकित्सायै सुतस्य तु ।। ५८४ ॥ सत्कृत्वा मण्डलालेखमुपवेश्य कुमारिकाम् । क्षिप्तमक्षतपात्रेऽसिं, पूजयामास डम्बरात् ॥ ५८५ ॥ ॥ ७॥ || ८७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy